________________ 236 शोभनस्तुति-वृत्तिमाला यस्य स महि० 'बहुव्रीहिः' / तत्सम्बो० हे महि० / माश्च अमराश्च मर्त्यामराः 'इतरेतरद्वन्द्वः' / मामराणां इन्द्रा मा० 'तत्पुरुषः' / नागानामिन्द्राः नागेन्द्राः 'तत्पुरुषः' / मामरेन्द्राश्च नागेन्द्राश्च मा० ‘इतरेतरद्वन्द्वः' / तैः मा० / दया च यमाश्च दयायमाः ‘इतरेतरद्वन्द्वः' / दयायमानां हितो दया० 'तत्पुरुषः' / तस्मै दया० / / इति काव्यार्थः / / 57 / / __(2) सि० वृ०-नम इति / दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, गर्भस्थेऽस्मिन् माता दानादिधर्मपरा जातेति वा धर्मः, तस्य सम्बोधनं हे श्रीधर्म ! श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपयोपलक्षित ! धर्माभिधतीर्थपते ! ते-तुभ्यं नमः-नमस्कारं अस्तु इत्यर्थः / तत्र नमः इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थमाह च-'नेवाइयं पयं दव्यभावसंकोयणपयत्थो' / नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः / अत्र ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? / 'नमः' / कस्मै ? / 'ते' / कथंभूताय ते ? / 'निष्कर्मोदयाय' निर्गतः कर्मणां ज्ञानावरणादीनां उदय-उत्पादो यस्मात् स तथा तस्मै / पुनः कथंभूताय ? / ‘दयायमहिताय' दया-कारुण्यं यमाः-पञ्चमहाव्रतानि, “अहिंसासत्यमस्तेयब्रह्माकिञ्चनता यमाः” इति चिन्तामणि (का० 1, श्लो० 81) नाममालाया चचनात्, दया च यमाश्च दयायमाः 'इतरेतरद्वन्द्वः', तेषां हिताय-हितकारकाय, वृद्धिजनकत्वात् / अवशिष्टं चैकं श्रीधर्मस्य सम्बोधनम् / तद्व्याख्या चैवं हे 'महितायते !' महिता-पूजिता आयतिः-प्रभावः-उत्तरकालो वा यस्य स तथा तस्य सम्बोधनं हे महि० / “आयतिः संयमे दैर्घ्य, प्रभावागामिकालयोः” इति विश्वः / कैः ? / 'मामरेन्द्रनागेन्द्रैः' मा-मनुष्याः अमरा-गीर्वाणाः माश्च अमराश्च मामराः 'इतरेतरद्वन्द्वः' / / 57 / / सौ० वृ०-योऽनन्तदोषजित् अनन्तगुणवान् भवति स साक्षात् मूर्तिमान् धर्म एव भवति / अनेन सम्बन्धेनायातस्य पञ्चदशश्रीधर्मजिनस्य स्तुतेरर्थो लिख्यते नम इति / श्रीशब्द: पूज्यार्थे / हे श्रीधर्म !पञ्चदशजिन ! (ते) तुभ्यं नमः अस्तु इत्यन्वयः / अस्तु' इति क्रियापदम् / किं कर्तृ ? / 'नमः' / अस्तु' भवतु / कस्मै ? / 'ते' तुभ्यम् / किंविशिष्टाय ते ? | निर्गतः कर्मणां-ज्ञानावरणीयादीनाम् उदयो यस्मात् स निष्कर्मोदयः तस्मै ‘निष्कर्मोदयाय' / महितः-पूजितः आयतिः-उत्तरकालो यस्य स महितायतिः तस्मै 'महितायते' / पुनः किंविशिष्टाय ते [तुभ्यं] ? / 'महिताय' पूजिताय / कैः ? / 'मां'-मनुष्याः अमरादेवाः तेषामिन्द्राः-स्वामिनः नागेन्द्राः-असुरकुमारेन्द्रादयः तैः ‘मामरेन्द्रनागेन्द्रैः' / पुनः किं०.ते 1. नैपातिकं पदं द्रव्यभावसंकोचनपदार्थः / 2. व्याकरणविपरीतमेतद्, चतुर्थीविभक्त्यां 'महितायतये' भवति तदप्यत्राऽनपेक्षितं सम्बोधनस्य प्रक्रमादतः 'तत्सम्बोधने' एवमत्रोचितम् /