________________ श्रीधर्मजिनस्तुतयः / 235 15. श्रीधर्मजिनस्तुतयः अथ श्रीधर्मनाथाय प्रणामः. नमः श्रीधर्म ! निष्कर्मो-दयाय महितायते ! / मामरेन्द्रनागेन्द्र-र्दयायमहिताय ते // 1 // 57 // - अनुष्टुप् ज० वि०-नम इति / हे श्रीधर्म !-श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपयोपलक्षितधर्माभिधतीर्थपते ! ते तुभ्यं नमः-नमस्कारः / अस्तु इति क्रियाऽध्याह्रियते / अत्र ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? 'नमः' / कस्मै ? 'ते' / कथंभूताय ते ? 'निष्कर्मोदयाय' निर्गतः कर्मोदयः-मलोत्पादो यस्मात् स तथा तस्मै / पुनः कथं० ? 'दयायमहिताय' दया-कारुण्यं यमा-अहिंसासूनृतादयः तेषां हिताय, वृद्धिजनकत्वात् / अवशिष्टं चैकं श्रीधर्मनाथस्य सम्बोधनं, तद्व्याख्या यथा-हे 'महितायते !' महितापूजिता आयतिः-प्रभुता उत्तरः कालो वा आ-समन्ताद् यतयः-साधवो वा यस्य स तथा तत्सम्बो० हे महि० / कैः ? 'मामरेन्द्रनागेन्द्रैः' मा-नराः अमरा-देवाः तेषामिन्द्राः-प्रभवः नागा-भवनविशेषास्तेषामिन्द्राश्च तैः / / अथ समासः-श्रियोपलक्षितो धर्मः श्रीधर्मः 'तत्पुरुषः' / तत्सम्बो० हे श्रीधर्म ! / कर्मणामुदयः कर्मोदयः 'तत्पुरुषः' / निर्गतः कर्मोदयो यस्मात् स निष्क० 'बहुव्रीहिः' / तस्मै निष्क० / महिता आयतिर्यस्य स महि० ‘बहुव्रीहिः' / यद्वा आ-समन्ताद् यतय आयतयः 'तत्पुरुषः' / महिता आयतयो