________________ 234 शोभनस्तुति-वृत्तिमाला अवचूरिः अच्युता-अलु(च्छु)प्ता देवी कं-सुखं देयात् / कथंभूता ? / 'इता'-प्राप्ता / कम् ? / 'उच्चतुरङ्गमनायकं'-तुङ्गाश्चप्रकाण्डम् / किंविशिष्टम् / 'रसितं'-शब्दायमानम् / उत्-प्राबल्येन चतुरं-दक्षम् / असितंनीलवर्णम् / यद्वा रसिते-मुत्-प्रमोदो यस्य स चासौ चतुरश्च तम् / गमनाय गत्यर्थम् / देवी कथंभूता ? | काञ्चनवत् कान्तिर्यस्याः सा | करैः-शयैधृता चापावरणखड्गबाणा यया सा // 4 / 14 / 56 // 1. अत्र 'तुरङ्गमप्रकाण्डम्' एवं सम्भाव्यते, प्रकृतपदरचना तु अस्तव्यस्ता /