________________ श्रीअनन्तजिनस्तुतयः 233 अथ समासः-रसितेन-हर्षारवेण-अश्वशब्देन मुद्-यस्याः सा रसितमुद्, यद्वा रसितस्य मुद् रसितमुद्, रसितमुदा चतुरः रसितमुच्चतुरः, तं रसितमुच्चतुरम् / गम्यते-ईप्सितदेशः प्राप्यते येन कृत्वा तद् गमनम्, तस्मै गमनाय / काञ्चनवत् कान्तिः यस्याः सा काञ्चनकान्तिः / धनुश्च फलकं च असिश्च शरश्च धनुःफलकासिशराः, धृता धनुःफलकासिशरा यया सा धृतधनुःफलकासिशरा / न सितः असितः, तम् असितम् / उच्चाश्च ते तुरङ्गगमाश्च उच्चतुरङ्गमाः, उच्चतुरङ्गमेषु-अष्टादशजातीयाश्वेषु नायकःश्रेष्ठः उच्चतुरङ्गमनायकः, तं उच्चतुरङ्गमनायकम् / आद्यन्तपदयमका स्तुतिरियम् / / इति चतुर्थवृत्तार्थः // 56 // श्रीअनन्तजिनेशस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति अनन्तजिनस्तुतिः // 4 / 14 / 56 // (4) दे० व्या०-रसितमिति / अच्युता देवी-अच्छुप्ता देवी कं-सुखं दिशतु-देयादित्यन्वयः / 'दिश अतिसर्जने' धातुः / 'दिशतु' इति क्रियापदम्। का की ? / 'अच्युता' / किं कर्मतापन्नम् ? / 'कं'सुखम् / “कं शिरो जलमाख्यातं, कं सुखं परिकीर्तितम्” इत्यनेकार्थः / किंविशिष्टा अच्युता देवी ? | ‘इता'-प्राप्ता / कम् ? / 'तुरङ्गमनायकं’-तुरङ्गमप्रकाण्डम् / किंविशिष्टम् ? / 'रसितं'-शब्दायमानम् / पुनः किंविशिष्टम् ? / 'उच्चतुरं' उत्-प्राबल्येन चतुरं-दक्षम् / यद्वा रसिते मुद्-प्रमोदो यस्य स चासो चतुरश्च तम् / गमनाय-गत्यर्थम् / पुनः किंविशिष्टम् ? | ‘असितं'-नीलवर्णम् / किंविशिष्टा देवी ? / 'काञ्चनकान्तिः' काञ्चनवत् कान्तिः-दीप्तिः यस्याः सा | पुनः किंविशिष्टा ? | ‘धृतधनुःफलकासिशरा' धृताः चापावरणखड्गबाणा यया सा / कैः ? | ‘करैः'-शयैः / “पञ्चशाखः शयः शमः / हस्तः पाणिः करः” इत्यभिधानचिन्तामणिः (का० 3, शलो० 255) / इति तुरीयवृत्तार्थः // 4 / 14 / 56 // . ध० टीका-रसितेति / ‘रसितं' शब्दायितम् / ‘उत्' प्राबल्येन / 'चतुरं' गृहीतशिक्षम् / अथवा रसिते मुद् यस्य स रसितमुद् स चासौ चतुरश्च तम् / ‘गमनाय' गत्यर्थम् / 'कं'.सुखम् / 'दिशतु' प्रयच्छतु / 'काञ्चनकान्तिः' कार्तस्वरद्युतिः / ‘इता' गता / ‘अच्युता' अच्छुप्ता / ‘धृतधनुःफलकासिशरा' धनुश्च फलकं च असिश्च शरश्च ते धृता यया सा / 'करैः' पाणिभिः / ‘असितं' नीलम् / ‘उच्चतुरङ्गमनायकं' उच्चः-प्रांशुः यस्तुरङ्गमनायकः-तुरङ्गमप्रकाण्डः तम् / उच्चतुरङ्गमनायकं इता अच्युता कं दिशतु इति सम्बन्धः // 4 / 14 / 56 //