________________ 232 शोभनस्तुति-वृत्तिमाला सम्बन्धः / 'दिश अतिसर्जने' धातोः आशी:प्रेरणयोः (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / तुदादेरः' (सा० सू० 1007), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘दिशतु' इति सिद्धम् / अत्र ‘दिशतु' इति क्रियापदम् / का की ? / 'अच्युता' / किं कर्मतापन्नम् ? / 'कम्' / “कं शिरो जलमाख्यातं, कं सुखं परिकीर्तितं” इति केशवः / “कं शीर्षेऽप्सु सुखं” इत्यनेकार्थः / कीदृशी अच्युता ? / 'इता'-प्राप्ता, समारूढेत्यर्थः / कम् ? / 'उच्चः'-प्रांशुः यः तुरङ्गमनायकः-तुरङ्गमप्रकाण्डः-घोटकश्रेष्ठस्तं उच्चतुरङ्गमनायकम् / कीदृशम् ? | ‘रसितं'-शब्दायितं, हेषारवसंयुतमित्यर्थः / “हेषा हेषा तुरङ्गाणां” (अभि० का०६, श्लो०४१), "स्तनितं गर्जितं मेघनिर्घोषे रषितादि च” इत्यमरः (श्लो० 161) / विशेषोऽत्र न विविक्तः / पुनः कीदृशम् ? / 'उच्चतुरं' उत्-प्राबल्येन चतुरं-गृहीतशिक्षम् / अथवा रसितमुच्चतुरं इत्यखण्डमेवेदं विशेषणम् / तथा चायमर्थः-रसिते-ध्वनिते मुत्-प्रमोदो यस्य (स) रसितमुत्, स चासौ चतुरश्च रसितमुच्चतुरस्तम् / पुनः कथंभूतम् ? / 'असितं'-नीलम् / कस्मै ? / 'गमनाय'-गत्यर्थम् / पुनः कथंभूता अच्युता ? / 'काञ्चनकान्तिः' काञ्चनं-कनकं तदिव कान्तिर्यस्याः सा | पुनः कथंभूता ? / 'धृतधनुःफलकासिशरा' धनुः-कार्मुकं फलकं-खेटकं असिः-करवालः शरःबाणः, धनुश्च फलकं च असिश्च शरश्च धनुःफलकासिशराः ‘इतरेतरद्वन्द्वः', ततः धृता धनुःफलकासिशरा यया सा ततः ? 'नित्यबहुव्रीहिः' / कैः कृत्वा ? / 'करैः"-हस्तैः / देव्याश्चतुर्भुजत्वेन प्रतिकरं एकैकायुधग्रहणादिति भावः / “धनुश्चापोऽस्त्रमिष्वासं(सः), कोदण्डं धन्व कार्मुकं” इति हैमः (का० 3, श्लो० 439) / द्रुतविलम्बितं छन्दः / “द्रुतविलम्बितमत्र नभौ भरौ” इति च तल्लक्षणम् / / 56 // // इति महोपाध्यायश्रीभानुचन्द्र० श्रीअनन्तजिनस्तुतिवृत्तिः // 4 // 14 / 56 // सौ० वृ०-रसितमिति / अच्युता-अच्छुप्तानाम्नी देवी कं-सुखं दिशत्वित्यन्वयः / 'दिशतु' इति क्रियापदम् / का की ? / 'अच्युता' / 'दिशतु' ददातु / किं कर्मतापन्नम् ? / 'कं' सुखम् / किंविशिष्टा अच्युता ? / 'काञ्चनकान्तिः' सुवर्णप्रभा, पीतवर्णेत्यर्थः / पुनः किं० अच्युता ? | ‘इता' प्राप्ता | कं कर्मतापन्नम् ? / 'उच्च०' उच्चम्-उन्नतं तुरङ्गमनायकम्-अश्वरत्नप्रधानम् / कस्मै ? / 'गमनाय' गत्यर्थम्, अश्ववाहनप्राप्त्यर्थम् / किंवि० (उच्च) तुरङ्गमनायकम् ? / ‘असितं' श्यामवर्णमित्यर्थः / पुनः किं० (उच्च) तुरङ्गमनायकम् ? / रसितेन-शब्देन कृत्वा या मुत्-हर्षः तेन चतुरः-कुशलः तं 'रसितमुच्चतुरम्', यद्वा रसितमुद् इति भिन्नं पदं देवीविशेषणम्, चतुरमिति अश्वविशेषणम् / पुनः किं० अच्युता ? / धृतं-गृहीतं धनुः-कोदण्डं फलकं-खेटकं असिः-खड्गः शरो-बाणो यया सा 'धृतधनु:फलकासिशरा' / कैः कृत्वा ? | ‘करैः' हस्तैः कृत्वा / चतुर्खपि हस्तेषु चत्वारि शस्त्राणि धृतानि / इति पदार्थः //