________________ श्रीअनन्तजिनस्तुतयः 231 श्रीअच्युतायाः स्तुतिःरसितमुच्चतुरं गमनाय कं दिशतु काञ्चनकान्तिरिताऽच्युता / धृतधनुःफणकासिशरा करै. रसितमुच्चतुरङ्गमनायकम् // 4 // 56 // - द्रुत० ज० वि०-रसितमिति / अच्युता-अच्युताख्या अच्छुप्तापरनाम्नी देवी कं-सुखं दिशतु-ददातु इति क्रियाकारकसम्बन्धः / अत्र 'दिशतु' इति क्रियापदम् ? / का कर्जी अच्युता' / किं कर्मतापन्नम् ? 'कम्' / कथंभूता अच्युता ? 'इता' प्राप्ता, समारूढेति भावः / कं कर्मतापन्नम् ? 'उच्चतुरङ्गमनायकम्' उच्चःप्रांशुः तुरङ्गमनायकः-तुरङ्गमप्रकाण्डो-घोटकोत्तमस्तं उच्चतुरङ्गमनायकम् / कथंभूतम् ? 'रसितं' शब्दायितं, हेषारवसंयुतमित्यर्थः / पुनः कथं० ? 'उच्चतुरम्' उत्-प्राबल्येन चतुरं-गृहीतशिक्षम् / अथवा रसितमुच्चतुरमिति अखण्डमेवेदं विशेषणम् / तथा चायमर्थः-रसिते-ध्वनिते मुत्-प्रमोदो यस्य स रसितमुत् स चासौ चतुरश्च रसितमुच्चतुरस्तम् / पुनः कथं० ? 'असितं' नीलम् / कस्मै तमिता ? 'गमनाय' गत्यर्थम् / पुनः कथं० अच्युता ? 'काञ्चनकान्तिः' काञ्चनवत् कान्तिर्यस्याः सा काञ्चन० / पुनः कथं० ? 'धृतधनुःफलकासिशराः' धनुः-कार्मुकं फलकं-खेटकं असिः-तरवारिः शरः-बाणः, ततो धृता धनुःफलकासिशरा यया सा तथा / कैः कृत्वा ? 'करैः' पाणिभिः / चत्वार्यपि प्रहरणानि चतुर्भिः करैधृतानीत्यर्थः / / ___ अथ समासः-उत्-प्राबल्येन चतुरः उच्चतुरः 'तत्पुरुषः' / तं उच्चतुरम् / अथवा रसिते मुद् यस्य स रसितमुत् ‘बहुव्रीहिः' / रसितमुत् चासौ चतुरश्च रसित० 'कर्मधारयः' / तं रसित० / काञ्चनस्येव कान्तिर्यस्याः सा काञ्चन० ‘बहुव्रीहिः' / धनुश्च फलकं च असिश्च शरश्च धनुःफलकासिशराः ‘इतरेतरद्वन्द्वः' / धृता धनुःफलकासिशरा यया सा धृत० ‘बहुव्रीहिः' / न सितः असितः 'तत्पुरुषः' / तं असितम् तुरङ्गमानां तुरङ्गमेषु वा नायकः तुरङ्ग० 'तत्पुरुषः' / उच्चश्चासौ तुरङ्गमनायकश्च उच्चतु० 'कर्मधारयः' / तं उच्चतुरङ्गम० / इति काव्यार्थः / / 56 / / ... // इति श्रीशोभनस्तुतिवृत्तौ अनन्तजिनपतिस्तुतेर्व्याख्या // 4 / 14 / 56 // सि० वृ०-रसितमिति / अच्युता-अच्युताख्या अच्छुप्तापरनाम्नी देवी कं-सुखं दिशतु ददात्विति