________________ 230 शोभनस्तुति-वृत्तिमाला जिनपतेः / तापं ददातीति तापदः, परमश्चासौ तापदश्च परमतापदः, जगतां त्रयी जगत्त्रयी, जगत्त्रय्याः परमतापद: जगत्त्रयीपरमतापदः, मानसात् जन्म यस्य स मानसजन्मा, अस्तो-ध्वस्तो जगत्त्रयीपरमतापदो मानसजन्मा येन सः अस्तजगत्त्रयीपरमतापदमानसजन्मा, तस्य अस्तजगत्त्रयीपरमतापदमानसजन्मनः / “मनः शृङ्गारसंकल्पात्मानो योनिः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 143) / इति तृतीयवृत्तार्थः / / 55 / / दे० व्या०-परमतेति / जिनपतेः-तीर्थङ्करस्य मतं-प्रवचनं भवतो-युष्मान् भवतः-संसारात् अवतात्-रक्षतात् इत्यन्वयः / 'अव रक्षणे' धातुः / 'अवतात्' इति क्रियापदम् / किं कर्तृ ? / 'मतम्'। कान् कर्मतापन्नान् ? / 'भवतः' / कस्य ? / 'जिनपतेः' जिनानां पतिः जिनपतिः इति विग्रहः तस्य / कस्मात् ? / 'भवतः' / किंविशिष्टं मतम् ? / 'परमतापत्' परेषां मतं परमतमिति षष्ठीतत्पुरुषः तस्य आपत्-आपदाभूतं तन्न्यक्कृतिहेतुत्वात् / पुनः किंविशिष्टम् ? / 'अमानसजन्मनःप्रियपदम्' अमानानिअप्रमाणानि सजन्ति-संबध्यमानानि मनःप्रियाणि-हृदयाहादीनि पदानि-सुप्तिङन्तानि यत्र तत् / किंविशिष्टस्य जिनपतेः ? / 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' अस्तो-विध्वस्तो जगत्त्रय्याः परमतापदो-महासन्तापकारी मानसजन्मा-कामो येन तस्य / इति तृतीयवृत्तार्थः / / 55 / / ध० टीका-परमतेति / 'परमतापत्' परमतानां-विपक्षागमानां आपद्धेतुत्वात् आपत्-व्यसनम् / 'अमानसजन्मनःप्रियपदं' अमानानि-अप्रमाणानि सजन्ति-सम्बध्यमानानि मनःप्रियाणि-हृदयाह्लादीनि पदानि-सुप्तिङन्तानि यत्र तत् / 'भवतः' युष्मान् / 'भवतः' संसारात् / ‘अवतात्' रक्षतु / 'जिनपतेः' अर्हतः / 'मतम्' आगमः / 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' अस्तः-क्षिप्तो जगत्त्रय्याः-जगत्रितयस्य परमतापदः-प्रकृष्टसन्तापदायी मानसजन्मा-मनोभवो येन तस्य / / 55 / / / अवचूरिः हे भव्यलोकाः ! जिनेन्द्रमतं भवतो-युष्मान् भवतः-संसारात् अवतात्-रक्षतात् / किंविशिष्टम् ? परमतानां-बौद्धादिशासनानामापदां हेतुत्वादापद्-व्यसनम् / अमानानि-असंख्यानि सजन्ति-संबध्यमानानि मनःप्रियाणि-चित्तप्रीतिकराणि पदानि-स्वाद्यन्तानि यस्मिंस्तत् / जिनपतेः कथंभूतस्य ? / अस्तोध्वस्तो जगत्त्रय्याः परमतापदो-महासंतापकारी मानसजन्मा-कामो येन तस्य / / 55 / / ..