________________ श्रीअनन्तजिनस्तुतयः 229 परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तुदादेरः' (सा० सू० 1007) तुह्योस्तातङादेशः / तथा च 'अवतात्' इति सिद्धम् / अत्र ‘अवतात्' इति क्रियापदम् / किं कर्तृ ? / 'मतम्' / कान् कर्मतापन्नान् ? / 'भवतः' / कुतः ? / 'भवतः' / मतं कस्य ? / 'जिनपतेः' / कथंभूतं मतम् ? / 'परमतापत्' विपक्षागमानामापद्धेतुत्वाद् आपत् / पुनः कथंभूतम् ? / 'अमानसजन्मनःप्रियपदं' अमानानि-अप्रमाणानि सजन्ति-सम्बध्यमानानि मनःप्रियाणि-हृदयाह्लादीनि पदानि-स्यादित्यविभक्त्यन्तरूपाणि यत्र तत् तथा / अर्थसमाप्तिः पदमित्येके स्याद्यन्तं त्याद्यन्तं च तत् इत्यन्ये / / “एकाधिकपञ्चाशत्कोट्योष्टौ लक्षकाः ते द्वे (हे?) स्राश्च / षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुनः // वर्णाष्टकमेकपदे श्लोकानां मानमागमस्योक्तम् / जिनभाषितस्य सैकादशाङ्गपूर्वस्य विद्वद्भिः // " इत्यपरे / कथंभूतस्य जिनपतेः ? / 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' जगतां-लोकानां स्वर्गमर्त्यपाताललक्षणानां त्रयी जगत्त्रयी तस्याः परमं-प्रकृष्टं तापं ददातीति परमतापदायी यो मानसजन्मा-कामः सः अस्तः-अस्तं नीतो येन स तस्य, परमश्चासौ तापश्च परमतापः इति 'कर्मधारयः' / / 55 / / (3) सौ० वृ०-परमतेति / भो भव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तो भवतो-युष्मान् भवतःसंसारात् अवतादित्यन्वयः / 'अवतात्' इति क्रियापदम् / किं कतृ ? / 'मतम्' / 'अवतात्' रक्षतात् / कान् कर्मतापन्नान् ? / 'भवतः' / कस्मात् ? / 'भवतः' संसारात् / मतं कस्य / 'जिनपतेः' / किंवि० मत्तम् ? / परेषां मतानि सौगतादीनि तेषां आपदिव आपद् ‘परमतापत्' / पुनः किं० मतम् ? ।अमानानिअप्रमाणानि सजन्ति-सङ्ग कुर्वन्ति मनसः-चेतसः प्रियाणि-आह्लादकारकाणि पदानि-अर्हदादीनि यस्मिन् तत् ‘अमानसजन्मनःप्रियपदम्' / किंवि० जिनपतेः ? / अस्तो-निराकृतो जगत्त्रय्या-विष्टपत्रयस्य परमः-प्रकृष्टः तापदः-तापदायको मानसजन्मा-कामो येन सः अस्तजगत्त्रयीपरमतापदमानसजन्मा तस्य 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' / एवंविधस्य जिनपतेर्मतं भवतः-संसारात् भवतो-युष्मान् .' अवतादिति पदार्थः / / ___ अथ समासः-परेषां मतानि परमतानि, यद्वा पराणि च तानि मतानि च परमतानि, परमतेषु परमतानां वा आपदिव आपद् परमतापत् / मनसः प्रियाणि मनःप्रियाणि, संजन्ति च तानि मनःप्रियाणि च सजन्मनःप्रियाणि, न मानानि अमानानि, अमानानि च तानि सज० अमान०, अमानसजन्मनःप्रियाणि पदानि यस्मिन् यस्मै वा तद् अमानसजन्मनःप्रियपदम् / जिनानां पतिः जिनपतिः, तस्य