________________ 228 शोभनस्तुति-वृत्तिमाला आगमस्तुतिःपरमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् / जिनपतेर्मतमस्तजगत्त्रयी परमतापदमानसजन्मनः // 3 // 55 // __ - द्रुत० (9) ज० वि०-परमतेति / भो भव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तं भवतः-युष्मान् भवतःसंसारतः अवतात्-रक्षतु इति क्रियाकारकप्रयोगः / अत्र ‘अवतात्' इति क्रियापदम् / किं कर्तृ ? 'मतम्' / कान् कर्मतापन्नान् ? 'भवतः' / कुतः ? 'भवतः' संसारतः / मतं कस्य ? 'जिनपतेः' / कथंभूतं मतम् ? ‘परमतापत्' परमतानां-विपक्षागमानां आपद्धेतुत्वादापत् / पुनः कथं० ? 'अमानसजन्मनःप्रियपदम्' अमानानि-अप्रमाणानि सजन्ति-बध्यमानानि मनः-प्रियाणि-हृदयाहादीनि पदानिस्यादित्यादिविभक्त्यन्तरूपाणि यत्र तत् तथा / जिनपतेः कथंभूतस्य ? 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' जगत्त्रय्याः-त्रिभुवनस्य / परमतापदः-प्रकृष्टसन्तापदायी यो मानसजन्मा-कामः सः अस्तः-क्षिप्तः येन स तथा तस्य / / अथ समासः-परेषां मतानि पर० 'तत्पुरुषः' / परमतानामापत् परमतापत् 'तत्पुरुषः' / मनसः प्रियाणि मनःप्रियाणि 'तत्पुरुषः' / सजन्ति च तानि मनःप्रियाणि च सजन्म० 'कर्मधारयः' / सजन्मनः प्रियाणि च तानि पदानि सजन्म० 'कर्मधारयः' / न विद्यते मानं येषां तान्यमानानि बहुव्रीहिः' / अमानानि सजन्मनःप्रियपदानि यस्मिंस्तत् अमानसजन्म० 'बहुव्रीहिः' / जिनानां जिनेषु वा पतिर्जिन० 'तत्पुरुषः' / तस्य जिन० / जगतां त्रयी जगत्त्रयी 'तत्पुरुषः' / परमश्चासौ तापश्च परमतापः 'कर्मधारयः' / परमतापं ददातीति परमतापदः 'तत्पुरुषः' / जगत्त्रय्याः परमतापदो जगत्त्र० 'तत्पुरुषः' / मानसाज्जन्म यस्य स मानसजन्मा 'बहुव्रीहिः' / जगत्त्रयीपरमतापदश्चासौ मानसजन्मा च जग० 'कर्मधारयः' / अस्तो जगत्त्रयीपरमतापदमानसजन्मा येन सोऽस्तजगत्त्र० ‘बहुव्रीहिः' / तस्य अस्तजगत्त्र० / / इति काव्यार्थः / / 55 / / सि० वृ०-परमतेति / भो भव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तः भवतः-युष्मान् भवतःसंसारतः अवतात्-रक्षत्वित्यर्थः / 'अव रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि