________________ श्रीअनन्तजिनस्तुतयः 227 जिनेन्द्राणां कदम्बकं जिने०, तस्य सं० हे जिनेन्द्रकदम्बक ! / वरं ददातीति वरदः, तस्य सं० हे वरद ! / पादयोयुगं पादयुगम् / जानातीति ज्ञः, न ज्ञः अज्ञः, अज्ञस्य भावः अज्ञता, तां अज्ञताम् / अमराणां तामरसं अमरतामरसं, तस्मिन् अमरतामरसे / विततानि ईक्षणानि यस्य स विततेक्षणः, तस्य सं० हे विततेक्षण ! / / इति द्वितीयवृत्तार्थः / / 54 / / (4) दे व्या०-मम रतामरेति / हे 'जिनेन्द्रकदम्बक' ! जिनेन्द्राणां कदम्बकः-समूहः तस्यामन्त्रणं तेतव पादयुगं-चरणयुगलं मम अज्ञतां-मूढतां निहन्तु-विनाशयतु इत्यन्वयः / 'हन हिंसागत्योः' इति धातुः / 'निहन्तु' इति क्रियापदम् / किं कर्तृ ? / ‘पादयुगम्' / पादयोः युगं पादयुगमिति विग्रहः / कस्य ? / 'ते'-तव / कां कर्मतापन्नाम् ? / 'अज्ञतां' अज्ञस्य भावः अज्ञता ताम् / कस्य ? / 'मम' / किंविशिष्टं पादयुगम् ? / 'गतं'-न्यस्तम् / कस्मिन् ? / 'अमरतामरसे' अमरसम्बन्धि यत् तामरसं-कमलं तस्मिन् / जातिनिर्देशादत्रैकवचनम् / ‘रतामरसेवित' ! इति / रताः-आसक्तचित्ताः ये अमरा-देवाः तैः सेवितःपर्युपासितः यः स तस्यामन्त्रणम् / 'क्षणप्रद ! इति / क्षणं-उत्सवं प्रकर्षण ददातीति क्षणप्रदः तस्यामन्त्रणम् / 'वरद !' इति / वरं-वाञ्छितं ददातीति वरदः तस्यामन्त्रणम् / 'विततेक्षण !' इति / विततेविशाले ईक्षणे यस्य स तस्यामन्त्रणम् / एतानि सर्वाणि भगवतः संबोधनपदानि / इति द्वितीयवृत्तार्थः // 54 // घ० टीका-ममेति / 'मम' इति मम सम्बन्धिनीम् / ‘रतामरसेवित !' रताः-सक्तचित्ता ये अमरास्तैः सेवित ! / 'ते' तव / 'क्षणप्रद !' उत्सवदायिन् ! / 'निहन्तु' नाशयतु / 'जिनेन्द्रकदम्बक !' तीर्थवृन्द ! / 'वरद !' वाञ्छितप्रद ! | ‘पादयुगं' चरणद्वयम् / 'गतं' यातम् / 'अज्ञतां' मूढत्वम्। 'अमरतामरसे' अमराणां सम्बन्धिनि तामरसे / जातिनिर्देशात् बहुष्वपि एकत्वम् / 'विततेक्षण !' विशाललोचन ! / हे जिनेन्द्रकदम्बक ! अमरतामरसे गतं ते पादयुगं अज्ञतां मम निहन्तु इति योगः / / 54 / / अवचूरिः हे जिनेन्द्रपटल ! ते-तव पादयुगं ममाज्ञतां-जाड्यं निहन्तु / रताः-सक्तचित्ता येऽमरास्तैः सेवित ! / हेक्षणप्रद ! उत्सवदायक!। वरं ददातीति वरद ! / पादयुगं किंभूतम् ? / 'गतं'-प्राप्तम् / क्व ? ।अमरतामरसेसुरकृतनवकमलेषु / जातित्वादेकवचनम् / वितते-विस्तीर्णे लोचने यस्य तस्य संबोधनम् / / 54 / / 1. वितते ईक्षणे यस्य स विततेक्षणः' इत्यत्रोचितम् /