________________ 226 शोभनस्तुति-वृत्तिमाला . (2) सि० वृ०-मम रतामरेति / हे जिनेन्द्रकदम्बक ! तीर्थंकरसमूह ! ते-तव पादयुगं-चरणद्वयं मम अज्ञतां निहन्तु-नाशयतु इति क्रियाकारकसण्टङ्कः / अत्र 'निहन्तु' इति क्रियापदम् / किं कर्तृ ? | 'पादयुगम्' / कां कर्मतापन्नाम् ? / अज्ञताम् / कस्य ? / 'मम' / पादयुगं कस्य ? / 'ते' / कथंभूतं पादयुगम् ? / 'गतं'-प्राप्तम् / कस्मिन् ? / 'अमरतामरसे' अमरसम्बन्धिनि तामरसे-कमले / “तामरसं महोत्पलं” इति अभिधानचिन्तामणौ (का० 4, श्लो० 227) / अत्रैकवचननिर्देशस्तु जात्यपेक्षयाऽवसेयः / अपराणि सर्वाण्यपि जिनेन्द्रकदम्बकस्य सम्बोधनानि, तेषां व्याख्या त्वेवम्-हे ‘रतामरसेवित!' रता-भक्तिप्राग्भारवशात् आसक्तचित्ता ये अमरा-देवाः तैः सेवित! पर्युपासित! / हेक्षणप्रद!-उत्सवप्रदायिन्!। हे वरद!-वाञ्छितदायक! / हे विततेक्षण!-विशाललोचन! / / अथ समासानाह-रताश्च ते अमराश्च रतामराः ‘कर्मधारयः', रतामरैः सेवितो रता० 'तत्पुरुषः', (तस्य सं०) हे रतामरसेवित ! ।क्षणान् प्रददातीति क्षणप्रदः 'तत्पुरुषः', तत्सम्बोधनं हे क्षणप्रद ! / जिनानां जिनेषु वा इन्द्रा जिनेन्द्राः 'तत्पुरुषः', जिनेन्द्राणां कदम्बकं जिनेन्द्र० 'तत्पुरुषः', तत्सम्बोधनं हे जिनेन्द्र० / वरं ददातीति वरदः 'तत्पुरुषः', तत्सम्बोधनं हे वरद ! / पादयोर्युगं पादयुगं 'तत्पुरुषः' / न ज्ञः अज्ञः 'तत्पुरुषः' अज्ञस्य भावोऽज्ञता, तां अज्ञताम्, अमराणां तामरसं अमर० 'तत्पुरुषः', तस्मिन् अमर० / वितते ईक्षणे यस्य स वितते० 'बहुव्रीहिः', तत्सम्बोधनं हे विततेक्षण ! / इति काव्यार्थः / / 54 / / - (3) सौ० वृ०-मम रतामरेति / जिनाः-सामान्यकेवलिनः तेषामिन्द्राः-स्वामिनः तेषां कदम्बकं-वृन्दं तस्य सं० हे जिनेन्द्रकदम्बक !-तीर्थकरसमूह ! / पुनः रता-भक्तिमन्तो ये अमरा-देवास्तैः सेवितः-पूजितः, तस्य सं० रतामरसेवित ! / पुनः क्षणः-उत्सवः तं प्रकर्षेण ददातीति, तस्य सं० हे क्षणप्रद ! | पुनः वरम्ईप्सितं दानं ददातीति वरदः, तस्य स० हे वरद ! / पुनः विततानि-विस्तीर्णानि-प्रकाशमयानि नेत्राणि यस्य स विततेक्षणः, तस्य सं० हे विततेक्षण ! / ते-तव पादयुगं-चरणयुगं मम-अस्मत्सत्कां अज्ञतां-जाड्यं निहन्तु इत्यन्वयः / 'निहन्तु' इति क्रियापदम् / किं कर्तृ ? / ‘पादयुगम्' / 'निहन्तु' विनाशयतु / कां कस्मिन् ? / अमराणां-देवानां तामरसं-कमलं तस्मिन् ‘अमरतामरसे', सुरनिर्मितानि कमलानि बहूनि सन्ति, परं जातावेकवचनत्वात् / इति पदार्थः / / अथ समासः-रताश्च ते अमराश्च रतामराः, रतामरैः सेवितः रतामरसेवितः, तस्य सं० हे रतामरसेवित ! / क्षणं प्रकर्षेण ददातीति क्षणप्रदः, तस्य सं० हे क्षणप्रद ! / जिनानां इन्द्रा जिनेन्द्राः, 1. अत्र द्विवाच्यमावश्यकन्नेत्रयोसिङ्ख्याकत्वात् /