________________ श्रीअनन्तजिनस्तुतयः 225 सहासनो मेरुयैस्ते। यद्वा सकलधौत-ससुवर्णं सह-समर्थं दृढमासनं यस्मिन् / ततः स्लपित उल्लसन् सकलधौतसंहासनमेरुयैस्ते / हे अनन्तजित् / तव सानजलप्रवाहा मतं-हितं दिशन्त्विति संबन्धः / / 53 / / जिनसमुदायस्य विज्ञप्तिःमम रतामरसेवित ! ते क्षण प्रद ! निहन्तु जिनेन्द्रकदम्बक ! / वरद ! पादयुगं गतमज्ञता.. ममरतामरसे विततेक्षण ! // 2 // 54 // -द्रुत० (1) ज० वि०-मम रतामरेति / हे जिनेन्द्रकदम्बक !-तीर्थकरसमूह ! ते-तव पादयुग-चरणद्वयं मम अज्ञतां-मूढतां निहन्तु-विनाशयतु इति क्रियाकारकसंटङ्कः / अत्र 'निहन्तु' इति क्रियापदम् / किं कर्तृ ? ‘पादयुगम्' / कां कर्मतापन्नाम् ? 'अज्ञताम्' / कस्य ? 'मम' / पादयुगं कस्य ? 'ते' / कथंभूतं पादयुगम् ? 'गतं' प्राप्तम् / कस्मिन् ? अमरतामरसे' अमरसम्बन्धिनि तामरसे-कमले ।अत्रैकवचननिर्देशस्तु जात्या पर्यवसेयः / अपराणि सर्वाण्यपि जिनकदम्बकस्य सम्बोधनानि, तेषां व्याख्या त्वेवम्-हे 'रतामरसेवित !' रता-भक्तिप्राग्भारवशादासक्तचित्ता ये अमरा-देवाः तैः सेवित !-पर्युपासित ! / हे 'क्षणप्रद !' उत्सवप्रदायिन् ! / हे 'वरद !' वाञ्छितदायक ! / हे 'विततेक्षण !' विशाललोचन ! // अथ समासः-रताश्च ते अमराश्च रतामराः ‘कर्मधारयः' / रतामरैः सेवितो रता० 'तत्पुरुषः / तत्सम्बो० हे रता० / क्षणान् प्रददातीति क्षणप्रदः 'तत्पुरुषः' / तत्सम्बो० हे क्षण | जिनानां जिनेषु वा इन्द्रा जिनेन्द्रः 'तत्पुरुषः' जिनेन्द्राणां कदम्बकं जिनेन्द्रकदम्बकं 'तत्पुरुषः' / तत्सम्बो० हे जिनेन्द्र० / वरं ददातीति वरदः 'तत्पुरुषः' / तत्सम्बो० हे वरद ! / पादयोर्युगं पादयुगं 'तत्पुरुषः' / न ज्ञः अज्ञः 'तत्पुरुषः' / अज्ञस्य भावोऽज्ञता / तां अज्ञताम् / अमराणां तामरसं अमर० 'तत्पुरुषः' / तस्मिन्नमर० / वितते ईक्षणे यस्य स वितते० 'बहुव्रीहिः' / तत्सम्बो० हे वितत० / / इति काव्यार्थः // 54 / /