________________ 224 शोभनस्तुति-वृत्तिमाला च उल्लसत्सकलधौतसहासनम्, स्लपितेन उल्लसत्० स्लपित०सकलधौतसहासनम्, यद्वा असनाःशालवृक्षविशेषा यस्मिन् स स्लपितोल्लसत्सकलधौतसहासनः / स्नपितोल्लसत्सकलधौतसहासनो मेरुयैस्ते स्नपितोल्लसत्सकलधौतसहासनमेरवः / एतादृशा अनन्तजितः अभिषेकजलप्लवाः तव मतं-अभिमतं दिशन्तु / द्रुतविलम्बितच्छन्दसा स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 53 / / दे० व्या०-सकलधौतेति / अनन्तजितः-अनन्तजिनस्य अभिषेकजलप्लवाः ते-तव मतंवाञ्छितं दिशन्तु-ददतु इत्यन्वयः / 'दिश अतिसर्जने' धातुः / दिशन्तु' इति क्रियापदम् / के कर्तारः ? / 'अभिषेकजलप्लवाः' / “अम्बु वृद्धौ पूरः प्लवश्च सः (प्लवोऽपि च)” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 153) / किं कर्मतापन्नम् ? / 'मतम्' / कस्य ? | 'अनन्तजितः' / किंविशिष्टा अभिषेकजलप्लवाः ? / 'सकलधौतसहासनमेरवः' सकलाः-समस्ताः ते च ते धौताः-प्रक्षालिताः सहासाविकसितपुष्पा नमेरवो-वृक्षविशेषा यैस्ते तथा / पुनः किंविशिष्टाः ? / 'स्रपितोल्लसत्सकलधौतसहासनमेरवः' स्रपितः-स्नानं कारितः उल्लसन्-शोभमानः सकलधौतसहासनमेरुयैस्ते तथा / / इति प्रथमवृत्तार्थः / / 53 / / ध० टीका-सकलेति / 'सकलधौतसहासनमेरवः' सकलाः-समस्ताः धौताः क्षालिताः सहासाः सविकासाः नमेरवो-वृक्षविशेषाः यैस्ते / 'तव' भवतः / ‘दिशन्तु' ददतु / ‘अभिषेकजलप्लवाः' स्रानसलिलौघाः / ‘मतं' अभिप्रेतम् / 'अनन्तजितः' अनन्तजिन्नाम्नः / ‘स्त्रपितोल्लसत्सकलधौतसहासनमेरवः' सहासनेन स्नात्रपीठेन-असनैर्वा-वृक्षविशेषैर्वर्तत इति सहासनः, स्लपितः-प्लावितः उल्लसन्शोभमानः सकलधौतः-सहेमा सहासनो मेरुयैस्ते, अथवा उल्लसत् सकलधौतं-सहेम (सहं-) आरोहक्षमम् आसनं यस्मिन् स तथा स चासौ मेरुश्च स्रपित उल्लसन् सकलधौतसहासनो मेरुयैस्ते / अनन्तजितोऽभिषेकजलप्लवाः तव मतं दिशन्तु इति सम्बन्धः / / 53 / / अवचूरिः सकलाः-समस्ता धौताः-क्षालिताः सहासाः-सविकासा नमेरवो-वृक्षविशेषा यैस्ते / मतम्अभिप्रेतम् / हे अनन्तजिन ! / चतुर्दशस्य तीर्थकृतो द्वे नाम्नी-अनन्तः अनन्तजिच्च / सहासनेनस्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते ततः स्वपितः-सानं कारितः उल्लसन्-शोभमानः सकलधौतः-सहेमा