________________ श्रीअनन्तजिनस्तुतयः 223 देववृक्षविशेषा यैस्ते तथा / सहासाश्च ते नमेरवश्च सहासनमेरवः इति 'कर्मधारयः' / “नमेरुः सुरपुन्नागः” इत्यमरः (?) / (पुनः कथं० ?) ‘स्रपितोल्लसत्सकलधौतसहासनमेरवः' उल्लसन्-शोभमानः सकलधौतं कलधौतं-सुवर्णं तेन सह वर्तमानः सहासनः आसनेन-सानपीठेन असनैः-वृक्षविशेषैर्वा सह वर्तमानः, एवंविधो यो मेरुः-मेरुपर्वतः स उल्लसत्सकलधौतसहासनमेरुः, ततः स्लपितः-स्नानं कारित उल्लसत्सकलधौतसहासनमेरुः यैस्ते तथा / यदि वा उल्लसत्सकलधौतं सह-क्षमं दृढमित्यर्थः, एतादृशं आसनं यत्र स सकलधौतसहासनः, एतादृशो मेरुः स्रपितो यैस्ते तथेत्यर्थः / उल्लसच्च तत् सकलधौतं च उल्लसत्सकलधौतं इति 'कर्मधारयः', सहं च तदासनं च सहासनं (इति) 'कर्मधारयः', उल्लसत्सकलधौतं सहासनं यस्मिन् स तथेति ‘बहुव्रीहिः', उल्लसत्सकलधौत(सहासन)श्चासौ मेरुश्च उल्लसत्सकलधौतसहासनमेरुः इति ‘कर्मधारयः', स्लपित उल्लसत्सकलधौतसहासनमेरुयैस्ते त्रपितोल्लसत्सकलधौतसहासनमेरवः इति 'बहुव्रीहिः' / “कलधौतं रूप्यहेम्नोः, कलधौतः कलध्वनौ” इति विश्वः / / 53 / / (3) सौ० वृ०-यो विगतमलो भवति सोऽनन्तगुणवानेव भवति / अनेन संबन्धेनायातस्य चतुर्दशश्रीअनन्तजितः स्तुतिः प्रारभ्यते-सकलधौतेति / भो भव्याः ! अनन्तजितः-अनन्ततीर्थकृतः अभिषेको जन्ममहोत्सवस्नानं तस्य अलं-वारि तस्य प्लवाः-प्रवाहाः अभिषेकजलप्लवाः तव-भवतः मतम्-अभिमतं दिशन्तु इत्यन्वयः / 'दिशन्तु' इति क्रियापदम् / के कर्तारः ? / 'अभिषेकजलप्लवाः' / 'दिशन्तु' ददतु / किं कर्मतापन्नम् / ‘मतं' अभीष्टम् / कस्य ? / 'तव' / अभिषेकजलप्लवाः कस्य ? / 'अनन्तजितः' / अनन्तजिनेशस्य द्वे नाम्नी, “अनन्तजित् अनन्तः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 29) / किंवि० अभिषेकजलप्लवाः ? | सकलाः-समस्ताः धौताः-क्षालिताः सहासा-विकसिता नमेरवो-देववृक्षविशेषा यैः ते 'सकलधौतसहासनमेरवः' / पुनः किं० अभिषेकजलप्लवाः ? | स्रपितं-स्मापितम् उल्लसत्-दीप्यमानं कलधौतं-सुवर्णं तेन सहितं सकलधौतं सह-समर्थम् आसनं-सिंहासनम्, यद्वा असनः-शालवृक्षविशेषो यस्मिन् तादृशो मेरुयैस्ते 'लपितोल्लसत्सकलधौतसहासनमेरवः' / इति पदार्थः / / .. अथ समासः-सकलाश्च ते धौताश्च सकलधौताः, हासेन सहिताः सहासाः, सकलधौताश्च ते सहासाश्च सकलधौतसहासाः, सकलधौतसहासा नमेरवो यैः ते सकलधौतसहासनमेरवः / अभिषेकस्य जलम् अभिषेकजलम्, अभिषेकजलस्य प्लवा अभिषेकजलप्लवाः / अनन्तकर्मादिपक्षं जयतीति अनन्तजित्, तस्य अनन्तजितः / कलधौतेन सहितं सकलधौतम्, उल्लसत् च तत् सकलधौतं च उल्लसत्सकलधौतम्, सह्यते इति सहम्, सहं च तद् आसनं च सहासनम्, उल्लसत्सकलधौतं च तत् सहासनं