________________ 222 शोभनस्तुति-वृत्तिमाला नानपीठेन असनैः-वृक्षविशेषैर्वा सह वर्तमान एवंविधो यो मेरुः-मेरुपर्वतः, ततः स्रपितः-सानं कारित उल्लसत्सकलधौतसहासनमेरुयैस्ते तथा / यदिवा उल्लसत्सकलधौतं सह-क्षमं दृढमित्यर्थः,एतादृशमासनं यत्र स उल्लसत्सकलधौतसहासन एवंविधो मेरुः स्त्रपितो यैस्ते तथा / / अथ समासः-सकलाश्च ते धौताश्च सकलधौताः ‘कर्मधारयः' / सह हासेन वर्तन्त इति सहासाः 'तत्पुरुषः' / सहासाश्च ते नमेरवश्च सहा० 'कर्मधारयः' / सकलधौताः सहासनमेरवो यैस्ते सकल० 'बहुव्रीहिः' / जलानां प्लवा जलप्लवाः 'तत्पुरुषः' / अभिषेकस्य जलप्लवा अभिषेकजलप्लवाः 'तत्पुरुषः' / सह कलधौतेन वर्तत इति सकल० 'तत्पुरुषः' / उल्लसंश्चासौ सकलधौतश्च उल्लस० 'कर्मधारयः' / सह आसनेन असनैर्वा वर्तत इति सहासनः 'तत्पुरुषः' / सहासनश्चासौ मेरुश्च सहा० 'कर्मधारयः' / उल्लसत्सकलधौतश्चासौ सहासनमेरुश्च उल्लसत्सकल० 'कर्मधारयः' / सपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्त्रपितोल्लस० ‘बहुव्रीहिः' / अथवा उल्लसच्च तत् सकलधौतं च उल्लस० 'कर्मधारयः' / सहं च तदासनं च सहासनं कर्मधारयः' / उल्लसत्सकलधौतं सहासनं यस्मिन् स उल्लस० 'बहुव्रीहिः' / उल्लसत्सकलधौतसहासनश्चासौ मेरुश्च उल्लस० 'कर्मधारयः' / त्रपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्लपितोल्ल० ‘बहुव्रीहिः' / / इति काव्यार्थः / / 53 / / सि० वृ०-सकलधौतेति / भो भव्यात्मन् ! अनन्तानि ज्ञानादीनि अस्य, नास्ति गुणानामन्तो वाऽस्येति अनन्तः, स चासौ जिच्च अनन्तजित् तस्य अनन्तजितः-अनन्तजिन्नाम्नो जिनस्य / अनन्तनाथस्य अनन्तजित् इत्यपि नामान्तरमस्ति / यदाहुः (अभि० का० 1, श्लो० 29) “ऋषभो वृषभः श्रेयान्, श्रेयांसः स्यादनन्तजिदनन्तः / सुविधिः सुपुष्पदन्तो, मुनिसुव्रत-सुव्रतौ तुल्यौ / / " -आर्या / इति हेमसूरिपादाः / अभिषेकजलप्लवाः' अभिषेकः-जन्माभिषेकः तस्य जलप्लवाः-जलप्रवाहाः तव-भवतः मतं-अभिप्रेतं दिशन्तु-ददत्वित्यर्थः / 'दिश अतिसर्जने' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं अन्तु / 'तुदादेरः' (सा० सू० 1007), 'स्वरहीनं०' (सा० सू० 36) / तथा च 'दिशन्तु' इति सिद्धम् / अत्र 'दिशन्तु' इति क्रियापदम् / के कर्तारः ? / 'अभिषेकजलप्लवाः' / “अम्बुवृद्धौ पुरः प्लवश्च सः (प्लवोऽपि च)” इति हैमः (अभि० का० 4, श्लो० 153) / किं कर्मतापन्नम् ? / 'मतम्' / कस्य ? / 'तव' / अभिषेकजलप्लवाः कस्य ? / 'अनन्तजितः' अनन्तान् कर्मांशान् जयति, अनन्तैर्ज्ञानादिभिर्वा जयति-राजते इत्यनन्तजित् तस्य / किंविशिष्टा अभिषेकजलप्लवाः ? | ‘सकलधौतसहासनमेरवः' सकलाः-सर्वे धौताः-क्षालिताः सहासाः-सविकासा नमेरवः