________________ श्रीअनन्तजिनस्तुतयः 221 14. श्रीअनन्तजिनस्तुतयः / अथ श्रीअनन्तनाथस्य स्तुतिः.. सकलधौतसहासनमेरव-. स्तव दिशन्त्वभिषेकजलप्लवाः / मतमनन्तजितः स्नपितोल्लसत् सकलधौतसहासनमेरवः // 1 // 53 // - द्रुतविलम्बितम् ज० वि०-सकलधौतेति / भो भव्यात्मन् ! 'अनन्तजितः' अनन्तजिन्नाम्नो जिनस्य अनन्तजित् इत्यपि नामास्ति, “स्यादनन्तजिदनन्तः” इत्यभिधानचिन्तामणि (का० 1, श्लो० २९)-वचनात्, 'अभिषेकजलप्लवाः' अभिषेकस्य-जन्माभिषेकस्य जलप्लवाः-जलप्रवाहाः तव-भवतः मतं-अभिप्रेतं दिशन्तु-ददतु इति क्रियाकारकान्वयः / अत्र ‘दिशन्तु' इति क्रियापदम् / के कर्तारः ? 'अभिषेकजलप्लवाः' / किं कर्मतापन्नम् ? 'मतम्' / कस्य ? 'तव' / अभिषेकजलप्लवाः कस्य ? 'अनन्तजितः' / कथंभूता अभिषेकजलप्लवाः ? 'सकलधौतसहासनमेरवः' सकलाः-समस्ता धौताःक्षालिताः सहासाः-सविकासा नमेरवो-देववृक्षविशेषा यैस्ते तथा / पुनः कथं० ? 'स्रपितोल्लसत्सकलधौतसहासनमेरवः' उल्लसन्-शोभमानः सकलधौतः कलधौतं-सुवर्णं तेन सह वर्तमानः सहासनेन