________________ 220 शोभनस्तुति-वृत्तिमाला . (6) ___ अवचूरिः रोहिणी देवी मयि विषये ईहितममलं-अनवद्यं हितं-शुभोदकं तनुतां-कुरुताम् / मयि कथंभूते ? / प्रभाजि-प्रकर्षण भजत इति तच्छीले / अलं-अत्यर्थम् / परं-प्रकृष्टम् / देवी किंविशिष्टा ? / अचापलाचापल्यमुक्ता / सुधा-प्रासादलेपनद्रव्यं तद्वद् वसु-तेजो यस्याः / यद्वा अमृतमेव द्रव्यं यस्याः / न भी:भयं मनसि यस्याः सा अभीमनाः / सभा-सकान्तिका अक्षमाला यस्याः / प्रभाजितैः-तेजस्तिरस्कृतैः नुता-स्तुता / परमं चापं-धनुर्लातीति / आरोहणशीला / काम् ? / सुष्ठु धावतीति सुधावा-सुवेगा या सुरभी-गौस्ताम् / अनामयिनी-नीरोगा सभा यस्याः सा / क्षमा लातीति क्षमाले मयि // 4 / 13 / 52 //