________________ श्रीविमलजिनस्तुतयः 219 दे० व्या०-प्रभाजीति / रोहिणी देवी मयि-मद्विषये हितं-पथ्यं तनुतां-विस्तारयतां इत्यन्वयः / 'तनु विस्तारे' धातुः / 'तनुताम्' इति क्रियापदम् / का की ? / 'रोहिणी' / किं कर्मतापन्नम् ? / 'हितम् / कथम् ? / ‘अलम्'-अत्यर्थम् / कस्मिन् ? / 'मयि' / किंविशिष्टे मयि ? / 'प्रभाजि'-प्रकर्षण भजमाने / पुनः किंविशिष्टे ? / क्षमाले' क्षमा लाति-गृह्णाति इति क्षमालः तस्मिन् / किंविशिष्टं हितम् ? / अमलम्'अनवद्यम् / पुनः किंविशिष्टम् ? / 'परं'-प्रकृष्टम् / पुनः किंविशिष्टम् ? / 'ईहितं'-वाञ्छितम् / किंविशिष्टा रोहिणी ? / ‘अचापला'-चापल्यरहिता | पुनः किंविशिष्टा ? / 'सुधावसुः' सुधा-अमृतं तद्वद् वसुः-प्रभा यस्याः सा तथा / पुनः किंविशिष्टा ? | ‘अभीमनाः' अभीः-निर्भयं मनो-मानसं यस्याः सा / पुनः किंविशिष्टा ? | 'सभाक्षमाला' भया-कान्त्या सह वर्तमाना अक्षमाला यस्याः सा / पुनः किंविशिष्टा ? / 'प्रभाजितनुता' प्रभया-तेजसा जिताः पराभूताः तैः नुता-स्तुता / कथम् ? / ‘अलम्' / पुनः किंविशिष्टा ? / ‘परमचापला' परमम्-उत्कृष्टं चापं-धनुः लाति-गृह्णातीति तथा / “धनुश्चापोऽस्त्रमिष्वासः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 439) / पुनः किंविशिष्टा ? / 'आरोहिणी'-आरोहणशीला / काम् ? / 'सुधावसुरभी' सुधावा-सुवेगा या सुरभी-गौः ताम् / पुनः किंविशिष्टा ? / 'अनामयिसभा' न विद्यते आमयोरुग् यस्यां एवंविधा सभा-पर्षद् यस्याः सा तथा / / इति चतुर्थवृत्तार्थः / / 4 / / पृथ्वीच्छन्दः / / “यतिर्वसुकृता जसौ जसयलाश्च पृथ्वी गुरुः” इति च तल्लक्षणम् // 4 / 13 / 52 // ध० टीका-प्रभाजीति / 'प्रभाजि' प्रभजत इति प्रभाक् तस्मिन् / 'तनुताम्' तनोतु / ‘अलं' अत्यर्थम् / ‘परं' प्रकृष्टम् / अचापला' चपलत्वेन हीना / 'रोहिणी' रोहिण्याख्या / 'सुधावसुः' सुधाप्रासादानां लेपद्रव्यं तद्वद् वसुः-तेजो यस्याः सा, अथवा सुधा-अमृतं सैव वसु-द्रव्यं यस्याः सा / 'अभीमनाः' भीः-भयं तत्र मनो यस्याः सा, न भीमनाः अभीमनाः / 'मयि' मद्विषये / ‘सभाक्षमाला' सह भया-प्रभया सभा-सदीप्तिः अक्षमाला यस्याः सा / 'ईहितं' समीहितम् / 'प्रभाजितनुता' प्रभाजितैःतेजस्तिरस्कृतैर्नुता-स्तुता / ‘अमलं' अनवद्यम् / ‘परमचापला' परमं-प्रधानं चापं-धनुर्लाति या सा / ‘आरोहिणी' अवश्यमारोक्ष्यति या सा / अयमावश्यके णिनिः / 'सुधावसुरभी' सुधावा-सद्वेगा या सुरभीगौस्ताम् / णिनिसम्बन्धादत्र 'न निष्ठादिषु' इति षष्ठीप्रतिषेधः / 'अनामयिसभा' न आमयिनी-रोगिणी सभा-संसद् यस्याः सा 'क्षमाले' क्षमा-क्षान्तिस्तां लाति यः स तस्मिन् / 'हितं' सुखोदकम् / सुधावसुरभीमारोहिणी रोहिणी प्रभाजि क्षमाले मयि परं हितं तनुतामलमित्यन्वयः // 4 / 13 / 52 //