________________ 218 शोभनस्तुति-वृत्तिमाला ईहितम् ? / 'अमलम्' / पुनः किं० ईहितम् ? / 'परं' प्रकृष्टं प्रधानं वा / पुनः किं० ईहितम् ? / 'हितं' हितकृत / किंविशिष्टे मयि ? | प्रकर्षण भजतीति प्रभाक तस्मिन् ‘प्रभाजि' समीपवर्तिनीत्यर्थः / पुनः किं० मयि ? / क्षमां लातीति क्षमालस्तस्मिन् ‘क्षमाले' उपशमवति / किंवि० रोहिणी ? | प्रभया-कान्त्या जिता ये अमराः तैः नुता-स्तुता 'प्रभाजितनुता' / पुनः किं० रोहिणी ? / 'अचापला' चापल्यरहिता / पुनः किं० रोहिणी ? / परम-प्रधानं चापं-धनुः लाति-गृह्णाति इति ‘परमचापला' / पुनः किं० रोहिणी ? / सुधा प्रसादलेपद्रव्यम्, “छो' इति भाषायाम्, तद्वद् वसुः-तेजो यस्याः सा 'सुधावसुः” गौरवर्णा इत्यर्थः / यद्वा सुधा-अमृतं तदेव वसु-द्रव्यं यस्याः सा 'सुधावसुः' / पुनः किं० रोहिणी ? / नास्ति भी:भयं मनसि यस्याः (सा) 'अभीमनाः' / पुनः० किं० रोहिणी ? / 'आरोहिणी' आरूढा / 'कां कर्मतापन्नाम् ? / सु-शोभनो धावः-वेगो यस्याः सा तादृशी सुरभीः तां 'सुधावसुरभीम्' / पुनः किं० रोहिणी ? / आमयो-रोगो नास्तीति अनामयी, अनामयी सभा यस्याः सा ‘अनामयिसभा' / पुनः किं० रोहिणी ? / भा-कान्तिस्तया सहिता अक्षमाला-जाप्यमाला यस्याः सा ‘सभाक्षमाला' / एतादृशी रोहिणी देवी मयि विषये ईहितं तनुताम् / इति पदार्थः / / ____ अथ समासः-प्रकर्षण भजते इति प्रभाक, तस्मिन् प्रभाजि। चपलस्य भावः चापलम्, न विद्यते चापलं यस्याः सा अचापला / सुधाव वसुर्यस्याः सा सुधावसुः, यद्वा सुधा एव वसुयस्याः सा सुधावसुः / न विद्यते भीः-भयं मनसि यस्याः सा अभीमनाः / भया-कान्त्या सहिता सभा, (सभा) अक्षमाला यस्याः सा सभाक्षमाला / प्रभया जिताः प्रभाजिताः, प्रभाजितैः नुता प्रभाजितनुला / न विद्यते मलो यस्मिन् तद् अमलम् / परमश्चासौ चापश्च परमचापः, परमचापं लातीति परमचापला | आरुह्यते सा आरोहिणी / सु-शोभनो धावो-वेगो यस्याः सा सुधावा, सुधावा चासौ सुरभी च सुधावसुरभी, तां सुधावसुरभीम् / नास्ति आमयो-रोगो यस्यां सा अनामयिनी, अनामयिनी सभा यस्यां(स्याः) सा अनामयिसभा / क्षमा लातीति क्षमालः, तस्मिन् क्षमाले / / "अक्षो बिभीतके कर्षे, रावणे शकटात्मनोः / पाशके मणिके चाक्षः, इन्द्रिये खण्डमोक्षयोः // " इत्यनेकार्थतिलके / इति चतुर्थवृत्तार्थः / / 4 / / श्रीविमलजिनेन्द्रस्य, स्तुतेरो लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // इति त्रयोदशविमलजिनस्तुतिः // 4 / 13 / 52 //