________________ श्रीविमलजिनस्तुतयः 217 अमलम्-अनवद्यम् ईहितं-वाञ्छितं हितं-सुखाद्यनुकूलं वस्तु तनुतां-विस्तारयत्वित्यर्थः / 'तनु विस्तारे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् अग्रे ताम् 'तनादेरुप्' (सा० सू० 997) अपोपवादः / ‘स्वरहीनं०' (सा० सू० 36) / तथा च 'तनुताम्' इति सिद्धम् / अत्र 'तनुताम्' इति क्रियापदम् / का कर्जी ? | ‘रोहिणी' / रोहन्ति कार्याण्यस्यामिति रोहिणी / रुहेरिनन् / 'गौरादित्वात् ङीष्' / किं कर्मतापन्नम् ? / 'हितम्' / कथंभूतं हितम् ? | ‘परम्' / पुनः कथं० / 'अमलम्' / कथम् ? / ‘अलम्' / कस्मिन् ? / 'मयि' / कथंभूते मयि ? / 'प्रभाजि' प्रकर्षण भजते-सेवत इति प्रभाक्, तस्मिन् प्रभाजि, अनवरतं सेवातत्पर इत्यर्थः / पुनः कथंभूते ? / 'क्षमाले' क्षमा-शान्तिस्तां लाति-गृह्णातीति क्षमालस्तस्मिन् / कथंभूता रोहिणी ? / अचापला' चापलं-चपलत्वं न विद्यते यस्या यस्माद् वा सा तथा / पुनः कथंभूता ? / 'सुधावसुः' सुधा-प्रासादादीनां लेपनद्रव्यं छोह इति प्रसिद्धा तदिव वसुः-तेजो यस्याः सा तथा / अथवा सुधा-पीयूषं सैव वसु-द्रव्यं यस्याः सा तथेत्यर्थः / पुनः कथंभूता ? | ‘अभीमनाः' न भीः-भयं मनसि यस्याः सा तथा / पुनः कथं० ? / 'सभाक्षमाला' भा-प्रभा तया सह वर्तमाना सभा, एतादृशी अक्षमाला यस्याः सा | पुनः कथंभूता ? / 'प्रभाजितनुता' प्रभया-तेजसा जितैः-तिरस्कृतैः नुता-स्तुता / “स्तवः स्तोत्रं स्तुतिर्नुतिः” इति हैमः (का० 2, श्लो० 183) / पुनः कथंभूता ? / ‘परमंचापला' परमं-प्रकृष्टं च तत् चापं-धनुः लाति गृह्णातीति परमचापला / पुनः कथंभूता ? / ‘आरोहिणी' अवश्यमारोक्ष्यत्यारोहिणी / अयमावश्यके णिनिः / 'ऋन्नेभ्यो ङीप्' (पा० अ० 4, पा० 1, सू० 5) इति ङीप् / काम् ? / 'सुधावसुरभी' धावनं धावः-वेगः सुष्ठुशोभनो वेगो यस्याः सा सुधावा, 'सृ गतौ' इत्यस्य धावादेशः, सा चासौ सुरभी-गौस्ताम् / पुनः कथंभूता ? / अनामयिसभा' आमयो-रोगः सोऽस्याऽस्तीति आमयिनी, न आमयिनी-निरोगिणी सभासंसद् यस्याः सा / गोस्त्रियोरुपसर्जनस्य' (पा० अ० 1, पा० 2, सू० 48) इति ह्रस्वः / “आम आमय आकल्यम्” इति हैमः (का० 3, श्लो० 127) पृथ्वीच्छन्दः / “यतिर्वसुकृता जसौ जसयलाश्च पृथ्वी गुरुः” इति तल्लक्षणम् / / 52 / / // इति महोपाध्याय० विमलस्तुतिवृतिः // 4 / 13 / 52 // (3) सौ० वृ०-प्रभाजीति / रोहिणीनाम्नी देवी मयि-अस्मिन् (मद्?) विषये ईहितं-वाञ्छितं अमलंअनवद्यं हितं-पथ्यं तनुतामित्यन्वयः / 'तनुताम्' इति क्रियापदम् / का की ? / 'रोहिणी' देवी / 'तनुतां' विस्तारयतु / किं कर्मतापन्नम् ? / 'ईहितम्' / कस्मिन् ? / 'मयि' / कथम् ? / 'अलं' अत्यर्थम् / किंवि० 1. 'गौरादिभ्यो मुख्यान् ङीः' इति सिद्धहेमे (2 / 4 / 19) /