________________ 216 शोभनस्तुति-वृत्तिमाला + ज० वि०-प्रभाजीति / रोहिणी-रोहिण्याख्या देवी मयि-मद्विषये अलम्-अत्यर्थं परं-प्रकृष्टम् अमलम्-अनवद्यम् ईहितं-वाञ्छितं हितं-सुखानुकूलं वस्तु तनुतां-विस्तारयतु इति क्रियाकारकयोजना / अत्र 'तनुताम्' इति क्रियापदम् / का की ? ‘रोहिणी' / किं कर्मतापन्नम् ? 'हितम्' / कथं० ‘अमलं' गतमलम् / कस्मिन् ? 'मयि' / कथंभूते मयि ? 'प्रभाजि’ प्रकर्षण भजते-सेवत इति प्रभाक् तस्मिन्, अत्यन्तसेवावर्तिनीत्यर्थः / पुनः कथंभूते ? 'क्षमाले' क्षमा-क्षान्तिस्तां लातीति क्षमालस्तस्मिन् / रोहिणी कथंभूता ? 'अचापला' चापलं-चपलत्वं न विद्यते यस्याः सा तथा / पुनः कथं० ? 'सुधावसुः' सुधाप्रासादादीनां लेपद्रव्यं छोहेति प्रसिद्धा तद्वद् वसुः-तेजो यस्याः सा तथा, अथवा सुधा-पीयूषं सैव वसुद्रव्यं यस्याः सा तथा / पुन कथं० ? 'अभीमनाः' न भीः-भयं मनसि यस्याः सा तथा / पुनः कथं० ? 'सभाक्षमाला' भा-प्रभा तया सह वर्तमाना सभा. एताशी अक्षमाला यस्याः सा तथा / पनः कथं०? 'प्रभाजितनुता' प्रभाजितैः-तेजस्तिरस्कृतैः नुता-स्तुता / पुनः कथं० ? 'परमचापला' परमं-प्रधानं चापंधनुः लातीति तथा / पुनः कथं ? 'आरोहिणी' / अयं आवश्यके णिनिः / कां कर्मतापन्नाम् ? 'सुधावसुरभी' धावनं धावो-वेगः, शोभनो धावो यस्याः सा सुधावा या सुरभी-गौस्ताम् / णिनिसम्बन्धादत्र 'न निष्ठादिषु' इति षष्ठीप्रतिषेधः / पुनः कथं० ? 'अनामयिसभा' अनामयिनीअरोगिणी सभा-संसद् यस्याः सा तथा।। अथ समासः-चपलस्य भावः चापलं 'तत्पुरुषः' / न विद्यते चापलं यस्याः सा अचापला ‘बहुव्रीहिः' / सुधावद् वसुर्यस्याः सा सुधावसुः ‘बहुव्रीहिः' / अथवा सुधैव वसु यस्याः सा सुधावसुः ‘बहुव्रीहिः' / भीः मनसि यस्याः सा भीमनाः ‘बहुव्रीहिः' / न भीमनाः अभीमनाः 'तत्पुरुषः' / सह भया वर्तत इति सभा 'तत्पुरुषः' / सभा अक्षमाला यस्याः सा सभा० ‘बहुव्रीहिः' / प्रभया जिताः प्रभाजिताः 'तत्पुरुषः' / प्रभाजितैर्नुता प्रभाजि० 'तत्पुरुषः' / न विद्यते मलो यत्र तदमलं 'वहुव्रीहिः' / परमं च तत् चापं च परमचापं 'कर्मधारयः' / परमचापं लातीति परम० 'तत्पुरुषः' / शोभनो धावो यस्याः सा सुधावा 'बहुव्रीहिः' / सुधावा चासौ सुरभी च सुधा० 'कर्मधारयः' / तां सुधाव० / आमयोऽस्याऽस्तीति आमयिनी ('बहुव्रीहिः') / न आमयिनी अनामयिनी 'तत्पुरुषः' / अनामयिनी सभा यस्याः सा अनामयिसभा ‘बहुव्रीहिः' / क्षमा लातीति क्षमालः 'तत्पुरुषः' / तस्मिन् क्षमाले / / इति काव्यार्थः / / 52 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीविमलजिनेश्वरस्तुतेर्व्याख्या // 4 / 13 / 52 // ___ (2) सि० वृ०-प्रभाजीति / रोहिणी-रोहिणीनाम्नी देवी मयि-मद्विषये अलम्-अत्यर्थं परं-प्रकृष्टम्