________________ श्रीविमलजिनस्तुतयः 215 उपशमस्यैवात्र प्रधानत्वेन ख्यापनात् / पुनः किंविशष्टम् ? / 'सारहितं' सारं प्रधानं हितं-पथ्यं यस्मिन् तत् / पुनः किंविशिष्टम् ? / मतं-वाञ्छितम् / सतामिति शेषः / / इति तृतीयवृत्तार्थः / / 51 / / ध० टीका-सदेति / 'सदा' सर्वकालम् / 'यतिगुरोः' गुरुः-तत्त्वोपदेष्टा यतीनां गुरुर्जिन(स्त)स्य / 'अहो' इत्यामन्त्रणे / 'नमत' प्रणमत / 'मानवैः' नृभिः / 'अञ्चितं' पूजितम् / 'मतं' शासनम् / 'वरदं' अभीष्टप्रदम् / ‘एनसा' पापेन / ‘रहितं' त्यक्तम् / 'आयताभावतः' आयता-विस्तीर्णा भा-छाया विद्यते यस्य तस्य / ‘सदायति' सती-शोभना आयतिः-प्रभुता यस्य तत् / 'गुरोः' महतः / ‘रहः' रहस्यभूतम् / 'न' इति प्रतिषेधे उत्तरेण सम्बध्यते / 'मतमानवैरं' मानश्च वैरं च मानवैरे, ते मते यस्य तत् यन्न भवति / 'चितं' सम्बद्धम् / 'मतं' सर्वस्याभिप्रेतम् / 'वरदमेन' प्रधानप्रशमेन / 'सारहितं' सारं च तत् हितं च / 'आयता' आगच्छता / ‘भावतः' अनुरागात् / यतिगुरोर्मतमायता वरदमेन चितं सदा भावतो नमतेति सम्बन्धः / / 51 / / . अवचूरिः / अहो लोकाः ! यतिगुरों:-सर्वज्ञस्य भावतो-भक्त्या मतं-शासनं नमत / सदा-सर्वकालम् / * कथंभूतम् ? / मानवैः-मानुषैरञ्चितं-पूजितम् / वरं-अभीष्टार्थं ददाति वरदम् / एनसा-पापेन रहितंत्यक्तम् / यतिगुरोः किंभूतस्य ? / आयताभावतः आयता-विपुला भा अस्यास्तीति मतुप् / मतं किंभूतम् ? / सदायति सती-शोभना आयतिः-आगामिकालः प्रभुता वा यस्य तत् / गुरोरर्हतो रहोरहस्यभूतम् / न मते-अभीष्टे मानवैरे यस्य / चितं-व्याप्तम् / केन ? / वरदमेन-प्रधानोपशमेन / किंभूतेन ? / आयता-आगच्छता / मतं कथंभूतम् ? / मतं सर्वस्याभिप्रेतम् / सारं च तद्धितं च / यद्वा सारं हितं यस्मिन् / / 51 // श्रीरोहिण्यै विनतिःप्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् / प्रभाजितनुताऽमलं परमचापलाऽऽरोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् // 4 // 52 // - पृथ्वी