________________ 444 214 शोभनस्तुति-वृत्तिमाला ++++++++++ किं० मतम् ? / 'वरदं' इष्टवरदम्-इष्टवरदायकम् / पुनः किं० मतम् ? / 'रहितं' विरहितम् / केन ? 'एनसा' पापेन / किंविशिष्टस्य यतिगुरोः ? / आयता-महती या आभा-शोभा तद्वान् आयताभावान् तस्य 'आयताभावतः' / पुनः किं० मतम् ? / सत्-शोभना आयतिः-उत्तरकालः पूजाप्राप्तिर्वा यस्य तत् 'सदायति' / पुनः किं० मतम् ? / 'रहः' रहस्यभूतम् / कस्य ? / 'गुरोः पूज्यस्य / पुनः किं० मतम् ? | मतं-संमतं मानं च वैरं च यस्य तत् ‘मतमानवैरम्' / कथम् ? / 'न' निषेधे / रागद्वेषरहितमित्यर्थः / पुनः किं० मतम् ? / 'चितं' व्याप्तम् / केन ? / वरः-प्रधानो दमः-इन्द्रियविषयदमलक्षणः तेन वरदमेन' / वरदमेन किंविशिष्टेन ? | ‘आयता' विस्तीर्णेन / पुनः किं० मतम् ? / सारं-प्रधानं हितं यस्मिन् तत् 'सारहितम्' / इति पदार्थः / / __ अथ समासः-यतीनां गुरुः यतिगुरुः, तस्य यतिगुरोः / वरं ददातीति वरदः, तं वरदम् / आयता भा यस्यासौ आयताभावान्, तस्य आयताभावतः / सती-शोभना आयतिः यस्य तत् सदायति / गृणातिवदति तत्त्वं-हिताहितम् इति गुरुः, तस्य गुरोः / मानं च वैरं च मानवैरे, मते मानवैरे यस्य तत् मतमानवैरम् / वरश्वासौ दमश्च वरदमः, तेन वरदमेन / सारं च तत् हितं च सारहितम्, यद्वा सारं हितं यस्मिन् तत् सारहितम् / एवंविधं जिनमतं नमत / / इति तृतीयवृत्तार्थः / / 51 / / ___ (4) दे० व्या०-सदेति / अहो इत्याश्चर्ये / यतिगुरोः-जिनवरस्य मतं-प्रवचनं यूयं भावतः-भक्तितः नमत इत्यन्वयः / ‘णम प्रतीभावे' धातुः / ‘नमत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / किं कर्मतापन्नम् ? / 'मतम्' / मतं कस्य ? / 'यतिगुरोः' यतीनां गुरुः यतिगुरुः इति विग्रहः, तस्य / कस्मात् ? / 'भावतः' / किंविशिष्टा यूयम् ? / 'आयताः' आ-समन्तात् यताः-यत्नं कुर्वाणाः / किंविशिष्टस्य ‘यतिगुरोः ? | ‘आयताभावतः' आयता-विपुला भा-कान्तिर्यस्य स तस्य / अस्त्यर्थे वतुप्प्रत्ययः / किंविशिष्टं मतम् ? / 'अञ्चितं'-पूजितम् / कैः ? / 'मानवैः' मनुष्यैः / पुनः किंविशिष्टम् ? / 'वरदं'-वाञ्छितप्रदम् / पुनः किंविशिष्टम् ? / 'रहितं'-वर्जितम् / केन ? / 'एनसा'-पापेन / “एनः पाप्मा च पातकम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 16) / पुनः किंविशिष्टम् ? / 'सदायति' सती-शोभना आयतिः-उत्तरकालो यस्य तत् / “आयतिस्तूत्तरः कालः” इत्यभिधानचिन्तामणिः (का०२, श्लो०७६) / भगवत्प्रवचनस्य कदापि केनापि खण्डयितुमशक्यत्वात् / “आयतिः प्रभुता” इति प्राञ्चः / पुनः किंविशिष्टम् ? / 'रहः'-रहस्यभूतम् / कस्य ? / 'गुरोः' अर्हत इत्यर्थः / पुनः किंविशिष्टम् ? | ‘न मतमानवैरम्' मानश्च वैरं चेति पूर्वं 'द्वन्द्वः', ततो न मते-नाभिप्रेते मानवैरे-गर्वविरोधौ यस्य इति विग्रहः / पुनः किंविशष्टम् ? / 'चितं'-व्याप्तम् / केन ? / 'वरदमेन'-प्रधानोपशमेन / वरश्चासौ दमश्चेति समासः /