________________ श्रीविमलजिनस्तुतयः 'कर्मधारयः' / तेन वर० / सारं च तद् हितं च सारहितं 'कर्मधारयः' / यद्वा सारं हितं यस्मिन् तत् सार० ‘बहुव्रीहिः' / तत् सार० / / इति काव्यार्थः / / 51 / / (2) सि० वृ०-सदेति / अहो इत्यामन्त्रणे / हे भव्याः ! यूयं यतिगुरोः-अर्हतः मतं-शासनं सदासर्वकालं भावतः-भक्तितः अनुरागतो वा नमत-प्रणमतेत्यर्थः / ‘णम प्रह्वीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं णम् अग्रे त / ‘आदे: ष्णः सः' (सा० सू० 748) इति णस्य नकारः / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / 'स्वरहीनं०' (सा० सू० 36) / तथा च नमत' इति सिद्धम् / अत्र ‘नमत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / किं कर्मतापन्नम् ? | . 'मतम्' / कस्य ? | ‘यतिगुरोः' यतीना-साधूनां गृणाति धर्मोपदेशं यथार्थोपदेष्टा वा यतिगुरुः, तस्य यतिगुरोः / कथम् ? / 'सदा' / कुतः ? / 'भावतः' भावादिति भावतः सार्वविभक्तिकस्तस् / कथंभूतं मतम् ? / अञ्चितं- पूजितम्' / 'नाञ्चेः पूजायां (सा० सू० 287) इति नकारस्य लोपः / कैः कर्तृभिः ? | 'मानवैः'-मनुष्यैः / पुनः कथंभूतम् ? / 'वरदं' वरं-वाञ्छितं ददातीति वरदम् / पुनः कथंभूतम् ? / 'रहितं' वर्जितम् / केन ? / 'एनसा'-पापेन / पुनः कथंभूतम् ? सती-शोभना आयतिः-प्रभावः उत्तरकालो वा : यस्य तत् तथा। “आयतिस्तूत्तरः कालः” (अभि० का० 2, श्लो० 76), “स्यात् प्रभावेऽपि चायतिः” इत्यमरः / पुनः कथंभूतम् ? / 'रहः'-रहस्यभूतं तत्त्वमिति यावत् / “रहोऽपि गुह्ये भवने च तत्त्वे” इति विश्वः / पुनः कथंभूतम् ? / 'न मतमानवैरं' न इति निषेधवाचकम्, तेन न मते-न अभिप्रेते मानवैरेअहङ्कारविरोधौ यस्य तत् / मानं च वैरं च मानवैरे 'इतरेतरद्वन्द्वः' / “वैरं विरोधो विद्वेषः” इत्यमरः (श्लो० 411) / पुनः कथंभूतम् ? | 'चितं'-व्याप्तम् / केन ? / 'वरदमेन' वरः-प्रधानो यो दमो-दमनं तेन / बरदमेन किं कुर्वता ? | ‘आयता'-आगच्छता / पुनः कथंभूतम् ? / 'सारहितं' सारं हितं यस्मिन् तत्, सारं च तद्धितं चेति वा / कथंभूतस्य यतिगुरोः ? / 'आयताभावतः' आयता-विस्तारिणी आभा-छाया सा विद्यते यस्य स आयताभावान् तस्य / कथंभूतस्य ? / ‘गुरोः'-महतः / / 51 / / (3) सौ० वृ०-सदेति / अहो इत्यामन्त्रणे / भो भव्याः यूयं यतीनां-साधूनां गुरुः-धर्मोपदेष्टा तस्य यतिगुरोः-तीर्थकृतः मतं-शासनं प्रवचनं वा सदा-सर्वदा भावतो-रागतः भक्तितो वा नमत इत्यन्वयः / 'नमत' इति क्रियापदम् / के कर्तारः ? / 'यूयं' भवन्तः / 'नमत' प्रणमत / किं कर्मतापन्नम् ? / 'मतम्' कथम् ? / 'सदा' सर्वदा / किंवि० मतम् ? / 'अर्चितं' पूजितम् / कैः ? / 'मानवैः' मनुष्यैः / पुनः 1. इदं सूत्रं पाणिनीयेऽपि / 2. अत्र ‘अञ्चित' मित्यावश्यकं श्लोके तथाविधपाठात् /