________________ 212 शोभनस्तुति-वृत्तिमाला शोभमानाश्च नाभीरदा येषां ते / सकला-समस्ता भा-दीप्तिर्येषां येषु वा / यद्वा सह कलभया-रुचिररुचा वर्तन्ते / / 50 / / जिनप्रवचनप्रणामःसदा यतिगुरोरहो ! नमत मानवैरञ्चितं मतं वरदमेनसा रहितमायताभावतः / सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः // 3 // 51 // - पृथ्वी ज० वि०-सदेति / 'अहो' इत्यामन्त्रणे / भो भव्याः ! यूयं ‘यतिगुरोः' यतीनां साधूनां गुरु:तत्त्वोपदेष्टा तस्य यतिगुरोः अर्हत इत्यर्थः, मतं-शासनं सदा-सर्व [दा] कालं भावतः-भक्तितः अनुरागतो वा नमत-प्रणमत इति क्रियाकारकयोजना / अत्र ‘नमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / किं कर्मतापन्नम् ? 'मतम्' / कस्य ? 'यतिगुरोः' / कथम् ? 'सदा' / कुतः ? 'भावतः' / मतं कथंभूतम् ? 'अञ्चितं' पूजितम् / कैः कर्तृभिः ? ‘मानवैः' नरैः / पुनः कथं० ? 'वरदं' अभीष्टप्रदम् / पुनः कथं० ? 'रहितं' त्यक्तम् / केन ? 'एनसा' पापेन / पुनः कथं० ? 'सदायति' सती-शोभना आयतिः-प्रभुता उत्तरकालो वा यस्य तत् तथा / पुन कथं० ? 'रहः' रहस्यभूतम् / पुनः कथं० ? 'न मतमानवैरं' मतेअभिप्रेते मानवैरे-अहङ्कारविरोधौ यस्य तद् मतमानवैरम्, न इति निषेधे, तादृक् न भवतीति भावः / पुनः कथं० ? 'चितं' व्याप्तं सम्बद्धं वा / केन ? 'वरदमेन' प्रधानप्रशमेन / किं कुर्वता ? 'आयता' गच्छता / पुनः कथं० ? 'सारहितं' सारं च तद् हितं च, यद्वा सारं हितं यस्मिन् तत् तथा / यतिगुरोः कथंभूतस्य ? 'आयताभावतः' आयता-विस्तारिणी आभा-छाया सा विद्यते यस्य स आयताभावान् तस्य / पुनः कथंभूतस्य ? 'गुरोः' महतः / / अथ समासः-यतीनां यतिनां वा गुरुः यतिगुरुः 'तत्पुरुषः' / तस्य यति० / वरं ददातीति वरदं 'तत्पुरुषः' / तद् वरदम् / आयता चासौ आभा च आयताभा 'कर्मधारयः' / आयतामा वर्तते यस्य स आय० / तस्य आयता० / सती आयतिर्यस्य तत् सदायति ‘बहुव्रीहिः' / तत् सदा० / मानं च वैरं च मानवैरे इतरेतरद्वन्द्वः' / मते मानवैरे यस्य तत् मत० 'बहुव्रीहिः' / तत् मत० / वरश्चासौ दमश्च वरदमः