________________ श्रीविमलजिनस्तुतयः 211 उपसर्गादिभिरजिता / पुनः किंविशिष्टाः / 'असमराः' नास्ति समरः-संग्रामो येषां ते तथा, सकलकर्मविपक्षपक्षक्षयात् / पुनः किंविशिष्टाः ? / भीरदाः-भीविलेखकाः ('रद विलेखने' भियं रदन्तिभिन्दन्तीति), भयनाशका इति निष्कर्षः / पुनः किंविशिष्टाः ? / ('सकलभारतीराः' सकलां-कृत्स्नां भारती-विद्यां रान्ति-ददतीति तथा) / पुनः किंविशिष्टाः ? / यताः-प्रयत्नवन्तः / पुनः किंविशिष्टाः ? | 'सदानवसुराजिताः' सदानं-दानसहितं यद् वसु-द्रव्यं तेन राजिताः-शोभिताः [यावत्], सदा दानदायकत्वात् / पुनः किंविशिष्टाः ? / 'असमराजिनाभीरदाः' नाभिश्च रदाश्चेति पूर्वं 'द्वन्द्वः', ततः असमा-निरुपमा राजिनः-शोभमाना नाभीरदा येषामिति विग्रहः / पुनः किंविशिष्टाः ? 'सकलभाः' सकला-समग्रा भा-कान्तिः येषां ते तथा / पुनः किंविशिष्टाः ? आयताः / किंविशिष्टासु क्रियासु ? / रुचितासु-मनोज्ञासु / पुनः किंविशिष्टासु ? / उचितासु-योग्यासु पुण्यरूपासु / इति द्वितीयवृत्तार्थः / / 50 / / _ ध० टीका-सदानवेति / 'सदानवसुराजिताः' सह दानवैर्वर्तन्त इति सदानवाश्च ते सुराश्च तैः अजिता-उपसर्गादिभिः अक्षोभिताः / असमराः' न विद्यते समरः-सङ्ग्रामो येषां ते / 'जिनाः' तीर्थकृतः / : 'भीरदाः' भियं रदन्तीति भीरदाः-भयभिदः / ‘क्रियासु' कर्तव्यासु / 'रुचितासु' अभिप्रेतासु / 'ते' तव / 'सकलभारतीराः' सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तस्थितत्वात् तीराः-तीरभूताः, अथवा असकला-असदोषा भारतीः ईरयन्ति रान्ति वा ये ते तथा / 'यताः' निगृहीतेन्द्रियाः / 'सदानवसुराजिताः' सदानं-सविसर्जनं यद् वसु-द्रव्यं तेन पृथ्वीपालावस्थायां राजिताः-शोभिताः / 'असमराजिनाभीरदाः' असमं राजन्त एवंशीला नाभी-नाभिः रदाश्च-दशनाश्च येषां ते / ‘क्रियासुः' विधेयासुः / 'उचितासु' योग्यासु / 'ते' / 'सकलभाः' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते / ‘रतीः' मुदः / आयताः दीर्घाः / ते जिनाः उचितासु क्रियासु ते भारतीरायताः क्रियासुरिति योगः / / 50 / / अवचूरिः ते जिनास्ते-तव आयता-विपुला रतीः-मुदः क्रियासु-कर्तव्यासु क्रियासुः-देयासुः / किंभूतासु ? / रुचितासु-इष्टासु / उचितासु-योग्यासु, पुण्यरूपास्वित्यर्थः / जिनाः किंविशिष्टाः ? / सदानवैः-सासुरैः सुरैरुपसर्गादिभिरजिताः / असमरा-अरणाः / भियं-भीतिं रदन्ति-भिन्दन्तीति भीरदाः / 'रद विलेखने' / सकलाः-सदोषाः संसारकृत्यरूपा ये भारास्तेषां पर्यन्ते स्थितत्वात् तीराः / यद्वा असदोषा भारतीरीरयन्ति रान्ति वा। यताः-प्रयलवन्तः / सदानं-सत्यागं यद् वसु-सुवर्णं तेन राजिताः-शोभिताः / असमाः