SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 418 शोभनस्तुति-वृत्तिमाला नारीजनोरोजानां पीठी सरभसनतनाकिनारीजनोरोजपीठी, सरभसनतनाकिनारीजनोरोजपीठ्यां लुठन्तः सरभसनतनाकिनारीजनोरोजपीठीलुठन्तः, ताराश्च ते हाराश्च तारहाराः, सरभसनतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराः, स्फुरन्तश्च ते रश्मयश्च स्फुरद्रश्मयः, सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मयः, क्रमावेव अम्भोरुहं क्रमाम्भोरुहं, सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारं-प्रधानं कर्बुरितं वा क्रमाम्भोरुहं यस्याः सा सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहा, तस्याः सं० हे सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! | परमं च तद् वसु च परमवसु, अतिशयेन परमवसु इति परमवसुतरः, परमवसुतरः अङ्गजो यस्याः सा परमवसुतराङ्गजा, यद्वा परमश्च वसुतरश्च परमवसुतरौ परमवसुतरौ नामानौ (?) अङ्गजौ यस्याः सा परमवसुतराङ्गजा | अरातीनां भारः अरातिभारः, नाशितश्चासौ अरातिभारश्च नाशितारातिभारः, आरवेण-हुंकारेण सन्-विद्यमानः नाशितारातिभारो यया सा आरावसन्नाशितारातिभारा / हारवत् तारा हारतारा / बलं च क्षेमं च वलक्षेमे, बलक्षेमे ददातीति बलक्षेमदा / क्षणं रुचिः यस्याः सा क्षणरुचिः, क्षणरुचिवद् रुचिराः क्षणरुचिरुचिराः, क्षणरुचिरुचिराश्च ता उरवश्च क्षणरुचिरुचिरोरवः, क्षणरुचिरुचिरोरवश्च ताः चञ्चन्त्यश्च क्षणरुचिरुचिरोरुचञ्चन्त्यः, क्षणरुचिरुचिरोरुचञ्चन्त्यश्च ताः सटाश्च क्षणरुचिरुचिरोरुचञ्चत्सटाः, क्षणरुचिरुचिरोरुचञ्चत्सटाभिः सङ्कटः क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटः, उत्कृष्टश्चासौ कण्ठश्च उत्कृष्टकण्ठः, क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटश्चासौ उत्कृष्टकण्ठश्च क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठः, क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठेन उद्भटः क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटः, तस्मिन् क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे / सम्यक् स्थिता संस्थिता, तस्याः सं० हे संस्थिते ! / भव्यश्चासौ लोकश्च भव्यलोकः, तं भव्यलोकम् / गजानां अरिः गजारिः, तस्मिन् गजारौ / न सन्ना असन्ना, अक्षीणा इत्यर्थः / शितं च पृ. 416 सम्बन्धि टीप्पणमिदम्प्रथमम् - 1. श्रीभाण्डारकरओरियेन्टलइन्स्टिटयुट्संज्ञकसंस्थायाः प्रत्यां तु अयं पाठ:- इति निरतीचारचारित्राः, सौजन्यगुणशालिनः / भ्रातरो भावचन्द्राहा, आधादर्शमलीलिखन् / भद्रं भूयालेखकपाठकयोः / यादृशं पुस्तके दृष्टे, तादृशं लिषि(खि)तं मया / यदि शुद्धमशुद्धं वा, मम दोषो न दीयते // संवत् 1758 वर्षे फाल्गुनासितद्वितीयायां लिपीकृतं पं० सुमतिविजयगणिशिष्यमुनिरामविजयेन स्ववाचनार्थ श्रीबरहानपुरवरे / श्रीः // कल्याणमस्तु / श्रीः / छः // 2. 'परमं वसु यस्य स परमवसुः' इति प्रतिभाति /
SR No.004430
Book TitleShobhan Stuti Vruttimala Part 02
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy