________________ श्रीवीरजिनस्तुतयः 417 तस्यां लुठन्तः-इतस्ततः चलन्तो ये ताराः-निर्मला हाराः-मौक्तिकमालाः तेषां स्फुरन्तः-देदीप्यमानाः रश्मयः-किरणाः तैः कृत्वा सारं-प्रधानं कर्बुरं वा क्रमाम्भोरुहं-चरणपद्मं यस्याः सा सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहा, तस्याः सं० हे सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! त्वं-भवती भव्यलोकं सुतरां परं-प्रकर्षण अव इत्यन्वयः / अव' इति क्रियापदम् | का कर्ची ? / त्वम्' / 'अव' रक्ष / कं कर्मतापन्नम् ? / 'भव्यलोकम्' / भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः / कथम् ? / 'सुत' अतिशयेन शोभनतरं भवति यथा स्यात् तथा / किंविशिष्टा त्वम् ? / परमं-प्रकृष्टं अतिशयेन वसु-तेजो यस्य स तादृशः अङ्गजः-पुत्रो यस्याः सा 'परमवसुतराङ्गजा' यद्वा परमवसुतरौ द्वौ अङ्गजौ यस्याः सा 'परमवसुतराङ्गजा' / पुनः किंविशिष्टा त्वम् ? / आरावेण-शब्देन हुंकारेण सन्तः-विद्यमाना नाशिताः-त्रासिताः अरातीनां-शत्रूणां भाराःसमुदाया यया सा ‘आरावसन्नाशितारातिभारा' | पुनः किंविशिष्टा त्वम् ? / हारवत् तारा-उज्ज्वला निर्मला 'हारतारा' / पुनः किंविशिष्टा त्वम् ? / बलं-शरीरसामर्थ्य क्षेमं-कल्याणं तवयं ददातीति 'वलक्षेमदा' / पुनः किंविशिष्टा त्वम् ? | ‘भासिनी' तेजोभरैर्दीप्ता-भासनशीला / हे ‘अजित' ! / (अनभिभूते !) / हे 'संस्थिते !' अध्यासिते ! / कस्मिन् ? / 'गजारौ' गजस्य अरिः-शत्रुः गजारिः तस्मिन् गजारौ, सिंहाधिरूढा इत्यर्थः / पुनः किंविशिष्टा त्वम् ? / 'अमदा' मदरहिता, निरहङ्कारिणीत्यर्थः / कस्याम् ? | ‘भासि' स्वप्रभायाम् / पुनः किंविशिष्टा त्वम् ? 'असन्ना' अखिन्ना-श्रमरहिता / पुनः किंविशिष्टा त्वं ? / शितः-तीक्ष्णीकृतः य आरः-निधूमाङ्गारः स्वर्णस्याङ्कुशाग्रं वा तद्वदतिशयेन भाप्रभा यस्याः सा शितारातिभा' / किंविशिष्टे गजारौ ? / क्षणरुचिः-विद्युत् तद्वद् रुचिरा-मनोहरा उरवःमहत्यः चञ्चन्त्यो-दीप्यमानाः तादृश्यो याः सटाः ताभिः सङ्कटः-सङ्कीर्णः तादृशः उत्कृष्टो यः कण्ठःनिगरणः तेन उद्भटः-प्रधानः क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटः तस्मिन् क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटो-त्कृष्टकण्ठोद्भटे / पुनः किंविशिष्टे गजारौ ? नीहारो-हिमं तारानक्षत्राणि तबल्लक्षणो मलः (?) नीहारतारावलक्षः तस्मिन् 'नीहारतारावलक्षे' / राजिते अजिते नीहारतारावलक्षे एतद्विशेषणत्रयं गजारौ इत्यस्य कृतं, एतद्विशेषणत्रयं अम्विकायाः सम्बोधनेऽपि भवति / एतादृशा अम्विका त्वं भव्यलोकान् अव-त्रायस्व / इति पदार्थः / अथ समासः-“रभसं (सो?) वेगहर्षयोः” इति (विश्व०) वचनात् रभसेन सहितं सरभसं, सरभसं यथा स्यात् तथा नतः सरभसनतः, नाकं अस्यास्तीति नाकी, नाकिनो नार्यः नाकिनार्यः, नाकिनार्य एव जनः (नाकिनारीजनः), सरभसनतश्चासौ नाकिनारीजनश्च सरभसनतनाकिनारीजनः, उरसि जायन्ते इति उरोजाः, सरभसनतनाकिनारीजनस्य उरोजाः सरभसनतनाकिनारीजनोरोजाः, सरभसनतनाकि१. 'तद्वद् वलक्षो-धवलः' इति प्रतिभाति /