________________ श्रीवीरजिनस्तुतयः 'तत्पुरुषः' / न मोहितानि अमोहितानि तत्पुरुषः' / वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितैरमोहितानि वरतम० 'तत्पुरुषः' / वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहितान्यक्षाणि यस्य स वरतम० ‘बहुव्रीहिः' / निर्वाणस्य शर्माणि निर्वाण० 'तत्पुरुषः' / तानि निर्वाण | जातोऽवतारो यस्य स जातावतारः ‘बहुव्रीहिः' / धराया अधीशो धराधीशः 'तत्पुरुषः' / धराधीशश्चासौ सिद्धार्थश्च धरा० 'कर्मधारयः'। धराधीशसिद्धार्थस्य धाम धरा० 'तत्पुरुषः' / तस्मिन् धरा० / अलङ्कृतिरिवालङ्कृतिः / क्षमाया अलङ्कृतिः क्षमा० 'तत्पुरुषः' / तस्यां क्षमा० / सङ्गश्च मोदश्च सङ्गमोदौ ‘इतरेतरद्वन्द्वः' / न विद्येते सङ्गमोदौ यस्य सोऽसङ्ग० 'बहुव्रीहिः' / अथवा सङ्गान्मोदः सङ्गामोद: 'तत्पुरुषः' / न विद्यते सङ्गमोदो यस्य सोऽसङ्ग० ‘बहुव्रीहिः' / तत्सम्बो० हेऽसङ्ग० / न रतोऽरतः 'तत्पुरुषः' / तत्सम्बो० हेऽरत ! / न विद्यते रोदितं यस्य सोऽरोदितः ‘बहुव्रीहिः' / तत्सम्बो० हेऽरोदित ! / न विद्यतेऽनङ्गो यस्य सोऽनङ्गः ‘बहुव्रीहिः' / तत्सम्बो० हेऽनङ्ग ! / आर्यानवतीत्यार्यावः 'तत्पुरुषः' / तत्सम्बो० हे आर्याव ! / लीलायाः पदं लीलापदं 'तत्पुरुषः' / तस्मिन् लीलापदे / क्षित आमो येन स क्षितामः 'बहुव्रीहिः' ।क्षोभोऽस्यास्तीति क्षोभवान् / न क्षोभवान् अक्षोभवान् ‘तत्पुरुषः' / इति काव्यार्थः / / 93 / / सि० वृ०-नमदमरेति / हे चीर ! हे महावीर ! हे ज्ञातनन्दन ! भवान्-त्वं मम-मे निर्वाणशर्माणिमोक्षसुखानि वितरतु-प्रयच्छत्वित्यर्थः / विशेषेण ईरयति-कम्पयति-प्रेरयति कर्मशत्रूनिति वीरः / विपूर्व 'ईर गतिकम्पनयोः' पचाद्यच् / विशिष्टा ईः-लक्ष्मीः तपोरूपा तीर्थकृन्नामकर्मोदयसमुद्भूता वा तया राजतेऽसौ वीरः / 'राज दीप्तौ', 'अन्येभ्योऽपि-' (पा० अ० 3, पा०२, सू०७५) इतीङित्वाट्टिलोपः / यद्वा ईरणं ईरः 'ईर गतौ' भावे घञ् / ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्थाश्चेति वचनात् विशिष्ट ईरो - ज्ञानमस्य (स) वीरः / यद्वा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा-वाणी यस्येति वा / कर्मशत्रुसेनाजेतृत्वाद् दर्शितपराक्रमो वा वीरः / यद्वा निरुक्तिवशात् कर्मततिविदारणाद् वा वीरस्तस्य सम्बोधनं क्रियते हे वीर ! / 'तू प्लवनतरणयोः' धातोः ‘आशीः प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) / अतः' (सा० सू० 705) इति हेर्लुक् / तथा ‘वितरतु' इति सिद्धम् / अत्र ‘वितरतु' इति क्रियापदम् / कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? / 'निर्वाणशर्माणि' निर्वाणस्य-मोक्षस्य शर्माणि-सुखानि तानि निर्वाणशर्माणि | कस्य ? / 'मम' / कथंभूतो भवान् ? / 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' / वरतमा-प्रधानतमा सङ्गम[क]स्य-सङ्गमकनाम्नो वैमानिकस्य देवस्य अथवा वरतमः सङ्गमो यस्याः सा वरतमसङ्गमा सा चासौ 'उदारतारा' च उदारा-अदीना तारा लोचनकनीनिका 1. भ्रान्तमिदं 'वितरतु' पदस्य तृतीयपुरुषैकवाच्यत्वात् / 2. . अत्र 'भवान्' इत्युचितम्प्रतिभाति /