________________ 394 शोभनस्तुति-वृत्तिमाला यस्याः सा वरतमसङ्गमोदारतारा, सा चासौ ‘उदितानङ्गा' उदितः-उदयं प्राप्तः अनङ्ग:-कामो यस्याः सा वरतमसङ्गमोदारतारोदितानङ्गा, एवंविधा या नार्यावली-नारीणामावली-श्रेणी-स्त्रीश्रेणी तस्याः [आ]लापो-जल्पनं देहः-शरीरं ईक्षितं-विलोकितं, [आ]लापश्च देहश्च ईक्षितं च [आ]लापदेहेक्षितानि 'इतरेतरद्वन्द्वः', तैः अमोहितानि-अनासक्तानि-न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा / पुनः कथंभूतः ? / ‘जातावतारः' जातः अवतारः-अवतरणं यस्य स तथा / कस्मिन् ? / 'धराधीशसिद्धार्थधाम्नि' धरायाः-पृथिव्याः अधीशः-स्वामी यः सिद्धार्थनामा तस्य धाम्नि-गृहे / कथंभूते ? / 'क्षमालङ्कृतौ' क्षमायाः-पृथिव्याः अलङ्कृतौ-अलङ्कारभूते / “क्षितिः क्षोणी क्षमाऽनन्ताः” इति हैमः (का० 4, श्लो० 2) / पुनः कथंभूते ? / 'लीलापदे' लीलाया-विलासस्य पदे स्थाने / भवान् कथंभूतः ? / 'क्षितामः' क्षितः-क्षयितः आमः-रोगो यस्मात् सः / पुनः कथंभूतः ? | ‘अक्षोभवान्' न क्षोभो विद्यते यस्यासौ अक्षोभवान् / अवशिष्टानि सर्वाणि श्रीवीरस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे !' नमन्तः-प्रणमन्तो ये अमराः-देवाः तेषां ये शिरोरुहाःकेशाः तेभ्यः सस्ताः-पतिताः ताश्च ताः सामोदाः-सुरभयः एवंविधा या निर्निद्राणां-विकसितानां मन्दाराणांदेवद्रुमकुसुमानां मालाः-सजस्तासां यद् रजः-पुष्परेणुस्तेन रञ्जितौ-श्वेतरक्तीकृतौ अंही चरणौ यस्य स तथा तस्य संबोधनं हे नम० / हे 'धरित्रीकृतावन !' धरित्र्याः-भुवः, कथञ्चिदभेदात् धरित्रीगतलोकस्येत्यर्थः, कृतं-विहितं अवनं-रक्षणं येन स तथा तस्य संबोधनं हे धरित्रीकृतावन ! / “धात्री धरित्री धरणी” इति हैमः (का० ४,श्लो०१)। हे 'असङ्गमोद !' सङ्गः-स्त्र्यादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः, सङ्गश्च मोदश्च सङ्गमोदौ ‘इतरेतरद्वन्द्वः', ताभ्यां रहितो-वर्जितस्तत्संबोधनं हे असङ्गमोंद ! / हे ‘अनङ्गन !' अङ्गनाःनार्यस्ताभिः रहितस्तस्य संबोधनं हे अनङ्गन ! / कथम् ? / अनवरतं-निरन्तरम् / हे अरत !-असक्त ! / हे 'अरोदित !' न विद्यते रोदितं यस्य स तथा तस्य (सं० हे अरो०) / हे 'आर्याव !' आर्यान्-आर्यलोकान् अवति-रक्षति तथा तस्य सं० हे आर्याव ! / हे हित !-हितकारिन् ! / 'दधातेर्हिः' (सा० सू० 1305) / / 93 // (3) सौ० वृ०-श्रीवृषभाद्याः पार्वान्ता जिना यथार्थनामानः स्तुताः / एते सर्वेऽपि वर्धमानज्ञानदर्शनादिचरित्राद्यनेकगुणा भवन्ति / अनेन सम्बन्धेनायातस्य चतुर्विंशतितमश्रीवर्धमाननाम्नः देवैः कृतापरनामश्रीमहावीरनामजिनस्य स्तुतेर्व्याख्यानं विधीयते-नमदमरेति / हे 'वीर' ! हे श्रीमहावीर ! विशेषेण स्ववीर्यस्वात्मने (?) स्वभावे ईरयति-प्रेरयति इति वीरः तस्य सं० हे वीर ! | नमन्तः-प्रणमन्तः ये अमरा-देवाः तेषां शिरोरुहाः-केशाः-चिकुराः तेभ्यः स्रस्ताः-पतिताः सामोदाः आमोदः-सुगन्धःपरिमलः तेन सहिताः सामोदाः निर्निद्रा-विकसिता-विकस्वरा मन्दाराणां-देवतरूणां-कल्पवृक्षाणां या