________________ 392 शोभनम्ननि.निमाला कथं० ? ‘जातावतारः' अवतीर्णः, उत्पन्न इत्यर्थः / कस्मिन् ? 'धराधीशसिद्धार्थधाम्नि' धराधीशःक्षितिपतिः सिद्धार्थाभिधस्तस्य धाम्नि-गेहे / कथंभूते ? 'क्षमालङ्कृतौ' क्षमायाः-भुवः अलङकृतौअलङ्कारभूते / पुनः कथंभूते ? 'लीलापदे' विलासस्थाने / भवान् पुनः कथंभूतः ? 'क्षितामः' क्षपितरोगः / पुनः कथंभूतः ? 'अक्षोभवान्' क्षोभवर्जितः / शेषाणि सर्वाण्यपि श्रीवीरस्य सम्बोधनानि, तद्व्याख्या चैवम्-हे 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे !' नमन्तः-प्रणमन्तो ये अमरा-देवाः तेषां ये शिरोरुहाः-केशास्तेभ्यः स्रस्ताः-गलिताः सामोदाः-सुरभयः एवंविधा या निर्निद्राणांविकसितानां मन्दाराणां-देवद्रुमविशेषाणां कुसुमानां मालाः-सजः तासां यद् रजः-परागः तेन रञ्जितौपाटलितौ अंही-चरणौ यस्य स तथा, तत्सम्बो० हे नमद० / हे 'धरित्रीकृतावन.!' धरित्र्याः-भुवः कृतावन ! विहितत्राण ! ।अत्र धरित्रीशब्देन धरित्रीगता लोका ज्ञेयाः,आधाराधेययोः कथञ्चिदभेदोपचारांत् / हे असङ्गमोद !' सङ्ग:-द्वयादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः ताभ्यां रहितः, अथवा सङ्गाद् यो मोदस्तेन रहितः, (तत्सं० अस०) स्वतन्त्रसुखेत्यर्थः / कथम् ? 'अनवरतम्' निरन्तरम् / हे 'अरत !' असक्त ! / हे 'अरोदित !' रोदनवर्जित ! / हे 'अनङ्गन !' अङ्गनाः-नार्यस्ताभी रहित ! / हे 'आर्याव !' आर्यान्आर्यलोकान् अवति-रक्षति यः स तथा तत्सम्बो० हे आर्याव ! / हे ‘हित !' हितकारिन् ! // अथ समासः-नमन्तश्च ते अमराश्च नमद० 'कर्मधारयः' / शिरसि रोहन्तीति शिरोरुहाः 'तत्पुरुषः' / नमदमराणां शिरोरुहाः नमद० 'तत्पुरुषः' / नमदमरशिरोरुहेभ्यः सस्ता नमद० 'तत्पुरुषः' / सह आमोदेन वर्तन्त इति सामोदाः 'तत्पुरुषः' / निर्गता निद्रा येभ्यस्ते निर्निद्राः 'बहुव्रीहिः' / सामोदाश्च ते निर्निद्राश्च सामो० 'कर्मधारयः' / सामोदनिर्निद्राश्च ते मन्दाराश्च सामोद० 'कर्मधारयः' / नमदमरशिरोरुहस्रस्ताश्च ते सामोदनिर्निद्रमन्दाराश्च नमद० 'कर्मधारयः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दाराणां माला नमद० 'तत्पुरुषः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालानां रजः नमद० 'तत्पुरुषः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजसा रञ्जितौ नमद० 'तत्पुरुषः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितौ अंही यस्य स नमद० 'बहुव्रीहिः' / तत्सम्बोधनं हे नमद० / कृतमवनं येन स कृतावनः 'तत्पुरुषः' / धरित्र्याः कृतावनो धरित्री० 'तत्पुरुषः' / तत्सम्बो० हे धरि० / अतिशयेन वरा वरतमा / नारीणामावली नार्यावली 'तत्पुरुषः' / उदारा तारा यस्याः सा उदार० 'बहुव्रीहिः' / उदितोऽनङ्गो यस्याः सा उदिता० ‘बहुव्रीहिः' उदितानङ्गा चासौ नार्यावली च उदिता० 'कर्मधारयः' / उदारतारा चासावुदितानङ्गनार्यावली च उदार० 'कर्मधारयः' / सङ्गमस्योदारतारोदितानङ्गनार्यावली सङ्गमो० 'तत्पुरुषः' / वरतमा चासौ सङ्गमोदारतारोदितानङ्गनार्यावली च वरतम० 'कर्मधारयः' / अथवा वरतमः सङ्गमो यस्याः सा वरतम० ‘बहुव्रीहिः' / वरतमसङ्गमा चासावुदारतारोदितानङ्गनार्यावली च वरतम० 'कर्मधारयः' / लापश्च देहश्च ईक्षितं च लापदेहे० 'इतरेतरद्वन्द्वः' / वरतमसङ्गमोदारतारोदितानङ्गनार्यावल्या लापदेहेक्षितानि वरतम०