________________ श्रीवीरजिनस्तुतयः 24. श्रीवीरजिनस्तुतयः अथ श्रीवीरनाथाय विज्ञप्तिःनमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे ! धरित्रीकृता वन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् / मम वितरतु ‘वीर !' निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थ'धाम्नि क्षमालङ्कृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव ! लीलापदे हे क्षितामो हिताक्षोभवान् // 1 // 93 // __- अर्णवदण्डकः (1) ज० वि०-नमदमरेति / हे वीर !-महावीर ! / हे शब्द आभिमुख्याभिव्यक्तये सम्बोधनानां प्राक् प्रयुज्यते / भवान्-त्वं मम-मे निर्वाणशर्माणि-मोक्षसुखानि वितरतु-प्रयच्छतु इति क्रियाकारकसम्बन्धः / अत्र वितरतु' इति क्रियापदम् / कः कर्ता ? 'भवान्' / कानि कर्मतापन्नानि ? 'निर्वाणशर्माणि' / कस्य ? 'मम' | भवान् कथंभूतः ? 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' वरतमाप्रधानतरा सङ्गम[क] स्य-सङ्गमकनाम्नो वैमानिकस्य अथवा वरतमः सङ्गमो यस्याः सा तथा उदारताराअदीनलोचनकनीनिका उदितानङ्गा-उद्गतस्मरा एवंविधा या नार्यावली-स्त्रीश्रेणी तस्या लापो-जल्पनं, देहः-शरीरं, ईक्षितं-विलोकितं, तैरमोहितानि-अनासक्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा / पुनः 1. 'वरतम ! सङ्गमो०' इत्यपि पाठः /