________________ 390 शोभनस्तुति-वृत्तिमाला श्यामदेहा / ‘अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा / या सदसि सारतेजाः पारिन्द्रराजं याता सा त्वां त्रासात् त्रायतामिति योगः // 4 / 23 / 92 // (6) अवचूरिः याता प्राप्ता देवी / तारम्-उज्ज्वलं तेजो यस्याः सा / सदसि-सभायाम् / सन्तं-शोभनमसिं बिभर्ति सा / कालाः-कृष्णा कान्ता-रुचिरा अलकानामन्ताः-प्रान्ता यस्याः सा / अपगता अरयो यस्मात् तमपारिम् / पारिन्द्रराजम्-अजगरेन्द्रम् / सुरवाः-सुशब्दा या सुरवध्वो-देवकान्तास्ताभिः पूजिता / अरं-शीघं जितमारम्अरिसमूहो येन / सा यच्छब्दादिष्टा त्रासाद्-भयात् त्रायतां-रक्षताम् / त्वां-भवन्तम् / अविषमाः-सौम्या विषभृतः-सर्पा भूषणं यस्याः सा / तथा अभीषणा-अरौद्राकारा | भिया-भयेन हीना-त्यक्ता / अहीनोनागपतिस्तस्याग्र्या-प्रधाना पत्नी अग्र्यमहिषी / वैरोट्येत्यर्थः / कुवलयानां वलयं-समूहस्तद्वच्छ्यामो देहो यस्याः सा / अमदा-मदरहिता ईहा-चेष्टा यस्याः सा / या सदसि पारिन्द्रराजं (याता-) प्राप्ता सा अहीनाग्र्यपली त्रासात् त्रायतामिति संबन्धः // 4 / 23 / 92 // .