________________ श्रीपार्धजिनस्तुतयः 389 आरं, जितं-भग्नं आरं येन स तम् / यत्तदोर्नित्याभिसम्बन्धाद् या वैरोट्या देवी सदसि-सभायां तारतेजाःउत्कृष्टतेजाः वर्तते इत्यनुषङ्गः / किंविशिष्टा देवी ? / याता-आरूढा / कम् ? / पारिन्द्रराजं-अजगराधीशं, पारिन्द्राणां राजा तं पारिन्द्रराजमिति षष्ठीतत्पुरुषः' / 'राजाहःसखिभ्यष्टच्' (पा० अ० 5, पा० 4, सू० 91) इति टच्प्रत्ययेन रूपसिद्धिः / “चक्रमण्डल्यजगरः पारिन्द्रो वाहसः शयुः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 371) / किंविशिष्टं पारिन्द्रराजम् ? / 'अपारिं' अपगता अरयः-शत्रवो यस्य स तम् / पुनः किंविशिष्टा देवी ? / 'सदसिभृत्' सन्तं खड्गं बिभर्तीति तथा / क्विप्प्रत्ययान्तम् | पुनः किंविशिष्टा ? | ‘कालकान्तालकान्ता' कालाः-कृष्णाः कान्ताः-मनोज्ञाः अलकानां-केशानां अन्ता यस्या सा तथा / पुनः किंविशिष्टा ? / 'सुरवसुरवधूपूजिता' सुष्ठु-शोभनो रवः-शब्दो यासां तास्तथा सुराणां वध्वः सुरवध्वः इति पूर्वं 'षष्ठीतत्पुरुषः', ततः सुरवाश्च ताः सुरवध्वश्चेति ‘कर्मधारयः', ताभिः पूजिता-अर्चिता / स्तुतिपूर्वकं अमराङ्गनाभिः पूजिता इति तु निष्कर्षः / पुनः किंविशिष्टा ? / 'अविषमविषभृत्' न विषमा अविषमा इति पूर्वं 'नसमासः', सौम्या इत्यर्थः, ततः ते च ते विषभृतश्चेति 'कर्मधारयः', विषभृतः-सर्पाः त एव भूषणं-आभरणं यस्याः सा तथा | पुनः किंविशिष्टा ? | ‘अभीषणा' न भीषणा अभीषणा झति ‘नसमासः' / अरौद्रा इति निष्कर्षः / पुनः किंविशिष्टा ? / भीहीना' भिया हीना भीहीना इति 'तृतीयातत्पुरुषः' / भयरहितेति निष्कर्षः / पुनः किंविशिष्टा ? / 'अहीनाग्र्यपली' अहीनो-धरणेन्द्रः तस्य अग्र्यपली-मुख्यललना / अग्र्या चासौ पत्नी चेति पूर्वं 'कर्मधारयः' / पुनः किंविशिष्टा ? / 'कुवलयवलयश्यामदेहा' कुवलयानि-उत्पलानि तेषां वलयं-समूहः तद्वत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा / “उत्पलं स्यात् कुवलयं” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 229) / पुनः किंविशिष्टा ? / 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा / / इति तुरीयवृत्तार्थः // 4 / 23 / 92 // ध० टीका-यातेति / 'याता' गता / 'या' | 'तारतेजाः' उज्ज्वलप्रभा / 'सदसि' सभायाम् / ‘सदसिभृत्' सन्तं-शोभनं असिं विभर्ति या सा / 'कालकान्तालकान्ता' कालाः-कृष्णाः कान्ता-रुचिरा अलकान्ताः-कुरुलाग्राणि यस्या सा / 'अपारिं' अपगतारिम् / ‘पारिन्द्रराजं' अजगरेन्द्रम् / 'सुरवसुरवधूपूजिता' सुरवाः-शोभनरवा याः सुरवध्वः-देवाङ्गनाः ताभिः पूजिता / 'अरं' शीघ्रम् / 'जितारं' जितं आरं-अरिसमूहो येन तम् / 'सा' / 'त्रासात्' भयात् / 'त्रायतां' रक्षतु / 'त्वां' भवन्तम् / 'अविषमविषभृभूषणा' अविषमाः-सौम्या विषभृतः-सर्पा भूषणं यस्याः सा / 'अभीषणा' अरौद्रा / 'भीहीना' भयरहिता / अहीनाग्र्यपली' अहीनां-नागानां इनः-प्रभुः धरणेन्द्रः तस्याग्र्यपली-प्रधानकलत्रम्, वैरोट्या देवीत्यर्थः / 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहस्तद्वत्