________________ श्रीपार्धजिनस्तुतयः 387 राजम् ? / 'अपारिम्' अपगता-दूरीभूता अरयः-विपक्षा यस्य स तथा तम् / पुनः कथंभूतम् ? / 'जितारं' जितं-भग्नं आरं-अरीणां समूहो येन स तथा तम् / कथंभूता अहीनाग्र्यपली ? / 'तारतेजाः' तारं-उज्ज्वलं तेजो यस्याः सा तारतेजाः / कस्याम् ? / सदसि-सभायाम् / पुनः कथंभूता ? / 'सदसिभृत्' सन्-शोभनो यः असिः-खड्गः तं बिभर्तीति सदसिभृत्, क्विबन्तः / “तरवारिकौक्षेयकमण्डलाग्रा-असीक्रष्टिरिष्टी” इति हैमः (का० 3, श्लो० 446) / पुनः कथंभूता ? | 'कालकान्तालकान्ता' कालाः-श्यामाः कान्ताःकमनीयाः अलकान्ताः-कुन्तलाग्राणि यस्याः सा तथा / “अन्तः प्रान्तेऽन्तिके नाशे, स्वरूपेऽतिमनोहरे" इति विश्वः / पुनः कथंभूता ? | ‘सुरवसुरवधूपूजिता' सुरवाः-सुस्वराः याः सुरवध्वः-देवाङ्गनास्ताभिः पूजिता-महिता / अरं-अत्यर्थम् / पुनः कथंभूता ? | ‘अविषमविषभृभूषणा' न विषमा अविषमाः-सौम्याः ये विषभृतः-विषधराः-सर्पास्त एव भूषणं-शृङ्गारो यस्याः सा तथा / पुनः कथंभूता ? / अभीषणा-न भयानका | न भीषणा अभीषणा, अरौद्रेत्यर्थः / पुनः कथंभूता ? / 'भीहीना' भिया-भयेन हीना-रहिता [भीहीना] / पुनः कथंभूता ? / 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहः तद्वत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा / पुनः कथंभूता ? / 'अमदेहा' अमदा-मदरहिता ईहाचेष्टा यस्याः सा तथा / / 4 / / स्रग्धरेयं छन्दः / लक्षणं तु प्राक् प्रतिपादितम् / / 92 / / : ॥इति महोपाध्यायश्रीभानुचन्द्रगणिविरचित० श्रीपार्श्वनाथस्तुतिवृत्तिः // 4 / 23 / 92 // (3) सौ० वृ०-यातेति / सा ‘अहीनाग्र्यपली' अहयः-सर्पाः तेषां इनः-स्वामी धरणेन्द्रः तस्य अग्र्याप्रधाना पली-वैरोट्यानाम्नी देवी त्वां त्रासाद्-अकस्माद् भयात् त्रायताम् इत्यन्वयः / ‘त्रायताम्' इति क्रियापदम् / का की ? / 'अहीनाग्र्यपत्नी' / 'त्रायतां' रक्षताम् / कं कर्मतापन्नम् ? / 'त्वां' भवन्तम् / कस्मात् ? / 'त्रासात्' / किंविशिष्टा अहीनाग्र्यपली ? / 'सा' सा-प्रसिद्धा / तच्छब्दो यच्छन्दमपेक्षते / सा का ? / या अहीनाग्र्यपली पारिन्द्रराजं याता इत्यन्वयः / ‘याता' इति क्रियापदम् / का की ? | या / 'याता' प्राप्ता / कं कर्मतापन्नम् ? / पारिन्द्रराजं’ पारिन्द्रः-अलगर्दव्यालः तस्य राजा तं पारिन्द्रराजम्अजगरं प्रति गता-प्राप्ता, तस्या वाहनमित्यर्थः / किंविशिष्टं पारिन्द्रराजम् ? / 'अपारिं' अपगतवैरिम् / पुनः किंविशिष्टा या ? | तारं-देदीप्यमानं तेजो यस्याः सा 'तारतेजाः' / कस्याम् ? / 'सदसि' सभायां सुरपर्षदि / पुनः किंविशिष्टा या ? | सन्-शोभनः असिः-खड्गः तं प्रति बिभर्तीति ‘सदसिभृत्' / पुनः किंविशिष्टा या ? / कालाः-श्यामाः कान्ता-मनोज्ञा अलकानां-चिकुराणां अन्ता-अग्रभागा यस्याः सा 'कालकान्तालकान्ता' / पुनः किंविशिष्टा या ? / सु-शोभनो रवः-शब्दो यासां तास्तादृश्यो याः सुरवध्वःदेवस्त्रियः ताभिः पूजिता-अर्चिता ‘सुरवसुरवधूपूजिता' / कथम् ? / 'अरं' अत्यर्थम् / पुनः किंविशिष्टा या ? / 'जिता' जयनशीला / किं कर्मतापन्नम् ? / 'आरम्' अरिवृन्दम् / यद्वा 'जितारं' पारिन्द्रराजस्यापि