________________ श्रीपार्श्वजिनस्तुतयः 'ज० वि०-यातेति / हे भव्यात्मन् ! सा ‘अहीनाग्र्यपली' अहीनः-धरणेन्द्रः तस्य अग्र्यपलीपट्टराज्ञी वैरोट्यादेवीत्यर्थः, त्वां-भवन्तं त्रासाद्-भयाद् त्रायतां-रक्षत्विति क्रियाकारकप्रयोगः / अत्र 'त्रायताम्' इति क्रियापदम् / का कर्ची ? 'अहीनाग्र्यपली' / कं कर्मतापन्नम् ? 'त्वाम्' / कस्मात् ? 'त्रासात्' / सेति तच्छब्दयोगाद् यच्छब्दयोजनामाह-या अहीनाग्र्यपत्नी पारिन्द्रराज-गजेन्द्रं (अजगेरन्द्रं?) याता-गता प्राप्तेति यावत् / अत्र ‘अस्ति' इति क्रियापदम् / का की ? 'या' / या कथंभूता ? 'याता' / कं कर्मतापन्नम् ? ‘पारिन्द्रराजम्' / कथंभूतं पारिन्द्रराजम् ? 'अपारिं' अपगतवैरिणम् / यतः पुनः कथं० ? 'जितारं' जितं-पराजितं आरं-अरीणां समूहो येन स तथा तम् / अहीनाग्र्यपत्नी पुनः कथंभूता ? 'तारतेजाः' उज्ज्वलप्रभा / कस्याम् ? 'सदसि' सभायाम् / पुनः कथं०? 'सदसिभृत्' शोभनतरवारिधरा / पुनः कथं० ? 'कालकान्तालकान्ता' कालाः-श्यामाः कान्ताः-कमनीयाः अलकान्ताः-कुरलाग्राणि यस्याः सा तथा / पुनः कथं० ? 'सुरवसुरवधूपूजिता’ सुरवाः - सुस्वराः याः सुरवध्वो-देवाङ्गनास्ताभिः पूजितामहिता / (कथम्?) अरं' अत्यर्थम् / पुनः कथं० ? 'अविषमविषभृभूषणा' अविषमाः-सौम्याः विषभृतःसर्पाः त एव भूषणं-शृङ्गारो यस्याः सा तथा / पुनः कथं ? 'अभीषणा' अरौद्रा | पुनः कथं० ? 'भीहीना' भयरहिता / पुनः कथं० ? 'कुवलयनलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहस्तद्वत् श्यामो देहो यस्याः सा तथा | पुनः कथं० ? 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा / / .. अथ समासः-तारं तेजो यस्याः सा तार० 'बहुव्रीहिः' / संश्चासावसिश्च सदसिः ‘कर्मधारयः' / सदसिं बिभर्तीति सद० 'तत्पुरुषः' / अलकानामन्ता अलकान्ताः 'तत्पुरुषः' / अपगता अरयो यस्य सोऽपारिः ‘बहुव्रीहिः' / तमपारिम् / पारिन्द्राणां पारिन्द्रेषु वा राजा पारिन्द्र० 'तत्पुरुषः' / तं पारि० / शोभनो रवो यासां ताः सुरवाः ‘बहुव्रीहिः' / सुराणां वध्वः सुरवध्वः तत्पुरुषः' / सुरवाश्च ताः सुरवध्वश्च सुर० 'कर्मधारयः' / सुरवसुरवधूभिः पूजिता सुरवसुर० 'तत्पुरुषः' / अरीणां समूहः आरं तत्पुरुषः' / जितं आरं येन स जितारः ‘बहुव्रीहिः' / तं जितारम् / विषं बिभर्तीति विषभृत् 'तत्पुरुषः' / न विषमा अविषमाः 'तत्पुरुषः' / अविषमाश्च ते विषभृतश्च अविषम० 'कर्मधारयः' / अविषमविषभृतो भूषणं यस्याः सा अविषम० 'बहुव्रीहिः' / (न भीषणा अभी० 'तत्पुरुषः' / ) भिय हीना भीहीना 'तत्पुरुषः' / अहीनां इनः अहीनः 'तत्पुरुषः' / अग्र्या चासौ पत्नी च अग्र्यपली 'कर्मधारयः' / अहीनस्याग्र्यपली अहीना० 'तत्पुरुषः' / कुवलयानां वलयं कुवलय० 'तत्पुरुषः' / कुवलयवलयवत् श्यामः कुवल० 'तत्पुरुषः' / कुवलयवलयश्यामो देहो यस्याः सा कुवल० ‘बहुव्रीहिः' / न विद्यते मदो यस्याः सा अमदा 'बहुव्रीहिः' / अमदा ईहा यस्याः सा अमदेहा 'बहुव्रीहिः' / इति काव्यार्थः / / 92 // // इति श्रीशोभनस्तुतिवृत्ती श्रीपार्थपरमेश्वरस्य स्तुतेर्व्याख्या // 4 / 23 / 92 //