________________ 384 शोभनस्तुति-वृत्तिमाला श्लिष्टता यत्र सा / 'जैनराजी' जिनराजसम्बन्धिनी / ‘इनराजीनूता' इना-ईश्वरा आदित्या वा तेषां राज्यापङ्क्त्या नूता-स्तुता / 'नूतार्थधात्री' नूता-नवा ये अर्थाः तेषां धात्री-धरणशीला / 'इह' अत्र / 'ततहततमःपातकापातकामा' तताः-प्रसृता, हताः तमश्च पातकं च अपातः-पतनरहितः कामश्च यया सा / अपातकामेति पृथग् वा विशेषणम् / नास्ति पातश्च कामश्च यस्यामिति / शास्त्री' शास्त्रसम्बन्धिनी / 'शास्त्री' शासिका / 'नराणाम्' / अथवा 'शास्त्रीशा' शास्त्रिणां ईशा-स्वामिनी / 'स्त्रीनराणां' च (स्त्रीणां नराणां) 'हृदयहृत्' मनोहारिणी / 'अयशोरोधिका' अयशसां रोधिका-प्रचारविघातकारिका / अवाधिका' अबाधाजनिका / 'वा' शब्दश्चार्थे / ‘आदेया' ग्राह्या / ‘देयाद्' वितीर्यात् / 'मुदं’ प्रमोदम् / 'ते' तुभ्यम् / 'मनुजमनु जरां' पुमांसं लक्षणीकृत्य जरां-वयोहानिम् / 'त्याजयन्ती' मोचयन्ती / ‘जयन्ती' जयमासादयन्ती / या असद्योगभित् सा जैनराजी वाक् मुदं ते देयात् इति सम्वन्धः / / 91 / / अवचूरिः जिनराजानां संबन्धिनी जैनराजी वाग्-वाणी ते-तुभ्यं मुदं देयात् / किंविशिष्टा ? / सद्यः-शीघं असन्तो ये योगा-मनोवाक्कायव्यापारास्तान् भिनत्तीति सा / अमलानां गमानां लयो यत्र सा | इना-इभ्याः सूर्या वा तेषां राज्या नूता-स्तुता / नूतान्-नवीनानर्थान् दधातीति सा | इह-पृथिव्याम् / ततं-विपुलं, हतं-ध्वस्तं तमः-अज्ञानं पातकं-पाप्मा / अपातः-पतनरहितः कामश्च यया / यद्वा पृथग् विशेषणम् / न विद्यते पातकामौ. यस्याः सा / शास्त्री-शास्त्रसंवन्धिनी / नराणां शास्त्री-शासिका / यद्वा शास्त्रीणामीशा-स्वामिनी / स्त्रियो-नार्यो नरा-मास्तेषां हृदयं हरतीति / अयशो रुणद्धीति / न बाधते इत्यबाधिका / वा समुच्चये / आदेया-ग्राह्या / मनुजं-मानवमनु-लक्ष्यीकृत्य जरां-विस्रसां त्याजयन्तीविनाशयन्ती / जयन्ती केनाप्यपरिभूतत्वात् / / 91 / / श्रीवैरोट्यायाः स्तुतिःयाता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् / सा त्रासात् त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भीहीनाऽहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा // 4 // 92 // . - सग० 1. स्खलितमिदम्, अत्र लक्षीकृत्येत्युचितम् /