________________ श्रीपार्थजिनस्तुतयः 381 (2) * सि० वृ०–सद्योऽसद्योगेति / सा जिनराजानामियं जैनराजी जिनराजसंवन्धिनीत्यर्थः वाक्-वाणी ते-तव मुदं-हर्षं देयाद्-वितीर्यादित्यर्थः / 'डुदाञ् दाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'दादेरे' (सा० सू० 807) इत्याकारस्यैकारः / तथा च ‘देयाद्' इति सिद्धम् / अत्र ‘देयाद्' इति क्रियापदम् / का की ? / वाक् / कां कर्मतापन्नाम् ? / मुदं-हर्षम् / कुत्र ? / इह-अत्र जगति / कथम् ? / सद्यःतत्क्षणम् / वाक् किमीया ? | जैनराजी / कथंभूता वाक् ? / 'असद्योगभित्' असत्-अशोभनो यो योगःअसद्व्यापारः तं भिनत्ति सा तथा / यदि वा असन्तो-असाधवः तैः योगः-संसर्गः तं भिनत्तीति तथा / असद्योगं मनोवाक्कायव्यापारं भिनत्तीत्यर्थो वा / पुनः कथंभूता ? | ‘अमलगमलया' अमला-निर्मला ये गमाः-सदृशपाठाः तेषां लयः-श्लिष्टता यत्र सा तथा / पुनः कथंभूता ? / 'इनराजीनूता' इनाःचक्रवर्त्यादयः प्रभवः सूर्या वा तेषां राजी-श्रेणी तया नूता-स्तुता / “ईनः प्रभौ च सूर्ये च” इत्यमरः (?) / कथंभूता ? / 'नूतार्थधात्री' नूतना-नवीना ये अर्था-भावाः तेषां धात्री-धारणशीला, यदिवा नूतान्-नवान् अभिधेयान् प्रयोजनानि वा दधातीति नूतार्थधात्री / “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरः (श्लो० 2506) / पुनः किंविशिष्टा ? / 'ततहततमःपातकापातकामा' तमः-अज्ञानं पातकं-पापं अपातः-पातरहितः कामः-कन्दर्पः, तमश्च पातकं च अपातकामश्च ‘इतरेतरद्वन्द्वः', तता हताः तमःपातकापातकामा यया सा तथा,। अपातकामेति पृथग विशेषणं वा / पातः-पतनं कामः-स्मरः अनयो 'र्द्वन्द्वः' / तथा च न विद्यते पातकामौ यस्याः सा तथेति / पुनः कथंभूता ? / शास्त्री-शास्त्रसम्बन्धिनीत्यर्थः / तस्येदम्' (पा० अ०४, पा०३, सू० 120) इत्यण् / 'टिड्डाणञ्०' (पा० अ०४, पा० 1, सू० 15) इति ङीप् / “निदेशग्रन्थयोः शास्त्रं” इत्यमरः (श्लो० 2694) / पुनः कथंभूता ? / शास्त्रीशिक्षयित्री / केषाम् ? / नराणाम् / पुनः कथंभूता ? / 'हृदयहृत्' हृदयं हरति-वशीकुरुते इति हृदयहृत् / अथवा शास्त्रीशेत्येकं विशेषणं, स्त्रीनराणां हृदयहृदिति चै विशेषणमिति विशेषणद्वयं ज्ञातव्यम् / तथाहि-कथंभूता. वाक ? / शास्त्रीशा-शास्त्रं जानन्ति ते शास्त्रिणः-बहश्रताः तेषां ईशा-स्वामिनी. तैः सेवनीयत्वात् / पुनः कथंभूता ? / 'स्त्रीनराणां हृदयहृत्' स्त्रीणां-योषितां नराणां-पुंसां हृदयहृत्-मनोहरा / पुनः कथंभूता ? / 'अयशोरोधिका' अयशसां-अपकीर्तीनां रोधिका-प्रसरविघातकारिका / पुनः कथंभूता ? | ‘अबाधिका' न बाधत इत्यबाधिका, सर्वेषां सुखजनकत्वात् / पुनः किंविशिष्टा ? | 'आदेया' आदीयते इत्यादेया, ग्रहणयोग्येत्यर्थः / अविसंवादित्वेन सर्वैरपि तद्ग्रहणादिति भावः / वाक् किं कुर्वती ? / त्याजयन्ती-मोचयन्ती / काम् ? / जरां-विस्रसाम् / कथम् ? / 'मनुजमनु' मानवमनुलक्षीकृत्य, मनुजानां जरां विनाशयतीति फलितार्थः / किं कुर्वती ? / जयन्ती-जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् / / 91 / / 1. 'काऽसौ' इत्यत्रोचितम् / 2. “इनः सूर्य प्रभौ राजा” इति अमरकोशे (श्लो० 2557) /