________________ 380 . शोभनस्तुति-वृत्तिमाला 'नूतार्थधात्री' नूताः-नवीना ये अर्थाः-भावास्तेषां धात्री-धारणशीला / पुनः कथं० ? 'ततहततमःपातकापातामाः' तताः-प्रसृताः, हताः-क्षयं नीताः, तमः-अज्ञानं, पातकं-पापं, अपातः-पातरहितः, कामः-कन्दपः, तता हतास्तमःपातकापातकामा यया सा तथा / ततहततमःपातका अपातकामा चेति विशेषणद्वयं पृथग् व्याख्यायते तदापि युक्तमेव / तथा चायमर्थः-तते हते तमःपातके यया सा तथा, न विद्येते पातकामौ यस्याः सा तथेति / पुनः कथं० ? 'शास्त्री' शास्त्रसम्बन्धिनी / पुनः कथं० ? 'शास्त्री' शासिका / केषाम् ? 'नराणाम्' / पुनः कथं० ? हृदयहृत्' मनोहारी / अथवा शास्त्रीशेत्येकं विशेषणम् / स्त्रीनराणां हृदयहृदिति चैकं विशेषणमिति विशेषणद्वयं व्याख्येयम् / तथा हि शास्त्रिणः-शास्त्रवन्तः बहुश्रुता इत्यर्थः, तेषामीशा-स्वामिनी, तैः सेवनीयत्वात् / स्त्रीणां-योषितां नराणां-पुंसां हृदयहृत्मनोहरा / पुनः कथं० ? 'अयशोरोधिका' अयशसां-अकीर्तीनां रोधिका-प्रसरविघातकारिका / पुनः कथं० ? 'अबाधिका' न बाधाजनिका / 'वा' शब्दश्चार्थः स च समुच्चयार्थो ज्ञेयः / पुनः कथं० ? 'आदेया' ग्राह्या / वाक् किं कुर्वती ? 'त्याजयन्ती' मोचयन्ती / कां कर्मतापन्नाम् ? 'जरां' विस्रसाम् / कथम् ? 'मनुजमनु' मानवमनु-लक्षीकृत्य / मनुजानां जरां विनाशयतीति फलितार्थः / पुनः किं कुर्वती ? 'जयन्ती' जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् / / अथ समासः-न सन् असन् 'तत्पुरुषः' / असंश्चासौ योगश्च असद्योगः ‘कर्मधारयः' / अथवा न सन्तः असन्तः 'तत्पुरुषः' / असद्भिर्योगः असद्योगः 'तत्पुरुषः' / असद्योगं भिनत्तीत्यसद्योगभित् 'तत्पुरुषः' / न विद्यते मलो येषां ते अमलाः ‘बहुव्रीहिः' / अमलाश्च ते गमाश्च अमलगमाः ‘कर्मधारयः' / अमलगमानां लयो यस्यां सा अमलगम० 'बहुव्रीहिः' / जिनानां जिनेषु वा राजानः जिनराजाः 'तत्पुरुषः' / जिनराजानामियं जैनराजी / इनानां राजी इनराजी 'तत्पुरुषः' / इनराज्या नूता इनरा० 'तत्पुरुषः' / नूताश्च तेऽर्थाश्च नूतार्थाः ‘कर्मधारयः' / नूतार्थानां धात्री नूता० 'तत्पुरुषः' / तताश्च ते हताश्च ततहताः ‘कर्मधारयः' / न विद्यते पातो यस्य सोऽपातः ‘बहुव्रीहिः' / अपातश्चासौ कामश्च अपातकामः ‘कर्मधारयः' / तमश्च पातकं च अपातकामश्च तमःपा० 'इतरेतरद्वन्द्वः' / ततहतास्तमःपातकापातकामा यया सा ततहत० 'बहुव्रीहिः' / पृथग्विशेषणपक्षे तु तते च ते हते च ततहते 'कर्मधारयः' / तमश्च पातकं च तमःपातके 'इतरेतरद्वन्द्वः' / ततहते तमःपातके यया सा ततह० 'कर्मधारयः' / पातश्च कामश्च पातकामौ ‘इतरेतरद्वन्द्वः' / न विद्यते पातकामौ यस्याः सा अपा० 'बहुव्रीहिः' / शास्त्रीणामीशा शास्त्रीशा 'तत्पुरुषः' / स्त्रियश्च नराश्च स्त्रीनराः ‘इतरेतरद्वन्द्वः' / तेषां स्त्रीनराणाम् / हृदयं हरतीति हृदयहृत् तत्पुरुषः' / न यशांसि अयशांसि तत्पुरुषः'.। अयशसां रोधिका अयशो० 'तत्पुरुषः' / न बाधिका अबाधिका 'तत्पुरुषः' / इति काव्यार्थः / / 91 / /