________________ श्रीपार्धजिनस्तुतयः 375 एते न विद्यन्ते यस्याः सा / पुनः कथं० ? 'असमाना' असदृशा / सेति तच्छब्दसंयोगाद्यच्छब्दयोजनामाहया जिनानां राजी भीतिहृद्-भयापहारिणी / अत्र [अपि] ‘अस्ति' इति क्रिया अध्याह्रियते / ततश्च ‘अस्ति' इति क्रियापदम् / का कर्जी ? 'या' / कथंभूता ? 'भीतिहृत्' / कस्मिन् ? 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' तरलतराः-कम्प्रतराः लसन्तः-दीप्यमानाः केतवो-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तः ये तुरङ्गाः-अश्वाः व्यालाः-दुष्टदन्तिनः तेषां व्यालग्ना-भेटिताः कृताधिरोहणा वा एवंविधा ये योधाः-भटाः तैराचितः-आकीर्णः रचितो-विहितो यो रणः-सङ्ग्रामः तस्मिन् / कथम् ? 'आराद्' दूरात् अन्तिकाद् वा // .. अथ समासः-राजीवमिव राजीवम् / राजीवं वक्त्रं यस्याः सा राजीव० ‘बहुव्रीहिः' / लसन्तश्च ते केतवश्च लसत् ‘कर्मधारयः' / अतिशयेन तरलास्तरलतराः / तरलतरा लसत्केतवो येषां ते तरल० 'बहुव्रीहिः' / रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तु० 'कर्मधारयः' / रङ्गत्तुरङ्गाश्च व्यालाश्च रङ्गत्तु० ‘इतरेतरद्वन्द्वः' / रङ्गत्तुरङ्गव्यालानां व्यालग्ना रङ्गत्तु० 'तत्पुरुषः' / रङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च तरलतरलसत्केतुरङ्गत्तु० 'कर्मधारयः' / तरलतरलसत्केतवश्च ते रङ्गत्तुरङ्गव्यालव्यालग्नयोधाश्च तरल० 'कर्मधारयः' / तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधैराचितः तरल० 'तत्पुरुषः' / रचितश्चासौ रणश्च रचित० 'कर्मधारयः' / तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरल० 'कर्मधारयः' / तस्मिन् तरल० / भीतिं हरतीति भीतिहत् 'तत्पुरुषः' / अतिशयेन हृद्या अतिहृद्या 'तत्पुरुषः' / न विद्यते मलो यस्यां सा अमला ‘बहुव्रीहिः' / अमला मतिर्यस्य सोऽमलमतिः 'बहुव्रीहिः' / तस्यामलमतेः / अधिकश्चासावामश्च अधिकामः ‘कर्मधारयः' / तस्मादधिकामात् / अथवा आधिश्च कामश्चाधिकामं 'समाहारद्वन्द्वः' / तस्मादाधिकामात् / कालस्याननं कालाननं 'तत्पुरुषः' / व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकाला० 'इतरेतरद्वन्द्वः' / न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अव्याधिकाला० ‘बहुव्रीहिः' / न समाना असमाना 'तत्पुरुषः' इति काव्यार्थः / / 90 / / सि० वृ०-राजीति / सा जिनानां राजी-तीर्थकृतां पङ्क्तिः, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, 'अधिकामात्' अधिकः-उत्कृष्टः यः आमोरोगः तस्मात्, अथवा आधिः-मानसी व्यथा, कामः-कन्दर्पः तस्मात् (अलम्) अव्यात्-पायाद् इत्यर्थः / 'अव रक्षणे' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / अत्र ‘अव्यात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कं कर्मतापन्नम् ? / मा / कस्मात् ? / अधिकामात् /