SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 376 शोभनस्तुति-वृत्तिमाला जिनानां राजी कथंभूता ? | ‘राजीववक्त्रा' राजीवानि-कमलानि तद्वद् वक्त्रं-मुखं यस्याः सा / “परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे” इति हैमः (का० 4, श्लो० 227) / पुनः कथंभूता ? / अतिहृद्याअतिशयेन हृदयङ्गमा / पुनः कथंभूता ? / सारा-उत्कृष्टा / पुनः कथंभूता ? / बोधिका-बोधजनका / कस्य ? / 'अमलमतेः' अमला-निर्मला मतिः-प्रज्ञा यस्य स तथा तस्य / पुनः कथंभूता ? / 'अव्याधिकालाननजननजरात्रासमाना' व्याधिः-रोगः, कालाननं-यममुखं, जननं-जन्म, जरा-विस्रसा, त्रासः-भयं मानः-अभिमानः, व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः ‘इतरेतरद्वन्द्वः', एते न विद्यन्ते यस्याः सा तथा / पुनः कथंभूता ? / 'असमाना' न विद्यते समानः-सदृशः कोऽपि यस्याः सा असमाना / सेति सा का ? / या जिनानां राजी भीतिहत्भयापहारिणी, अस्तीति क्रियाध्याहारः / ततः ‘अस्ति' इति क्रियापदम् / का की ? / या / कथंभूता ? / 'भीतिहृत्' / कस्मिन् ? / 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरलाः तरलतराः ते च ते लसन्तो-दीप्यमानाः केतवः-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तो ये तुरङ्गाःअश्वाः व्यालाः-दुष्टदन्तिनः तेषां व्यालग्नाःभेटिताः कृताधिरोहणा वा, एवंविधा ये योधा-भटाः तैः . आचितः-आकीर्णः रचितो-विहितो यो रणः-सङ्ग्रामः तस्मिन् / कथम् ? / आरात् दूरात् अन्तिकाद्वा / लसन्तश्च ते केतवश्च लसत्केतव इति 'कर्मधारयः', तरलतरा लसत्केतवो येषां ते तरलतरलसत्केतवः 'बहुव्रीहिः', रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तुरङ्गाः ‘कर्मधारयः', रङ्गत्तुरङ्गाश्च व्यालाश्च रङ्गत्तुरङ्गव्यालाः 'इतरेतरद्वन्द्वः', रङ्गत्तुरङ्गव्यालानां व्यालग्नाः रङ्गत्तु० 'तत्पुरुषः', रङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च रङ्ग० 'कर्मधारयः', तरलतरलसत्केतवश्च ते रङ्गत्तुरङ्गव्यालव्यालग्नयोधाश्च तरल० 'कर्मधारयः', तैः आचितः तरल० 'तत्पुरुषः', रचितश्चासौ रणश्च रचितरणः ‘कर्मधारयः' / तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणः तस्मिन् / भीतिं हरतीति भीतिहृत् / / 90 / / . सौ० वृ०-राजीति | सा जिनानां राजी-तीर्थकृतां श्रेणिः अधिकः-उत्कृष्ट: आमो-रोगः तस्माद् अधिकामात्, यद्वा आधिः-मानसी व्यथा, कामो-विषयः तस्माद् आधिकामात् मा-मां प्रति अव्याद् इत्यन्वयः / 'अव्यात्' इति क्रियापदम् / का कर्ची ? / 'राजी' / केषाम् ? / 'जिनानाम्' / 'अव्यात्' पायाद्-रक्षतात् / कं कर्मतापन्नम् ? 'मा' / अस्मच्छब्दस्य द्वितीयैकवचनं मा इत्यस्य विशेषादेशे मा इति निपातः / त्वा मामा' इति सूत्रेण / कस्मात् अव्यात् ? / 'अधिकामात्' वा 'आधिकामात्' / किविशिष्टा जिनानां राजी ? / राजीवानि-पद्मानितद्वत् वक्त्राणि-मुखानि यस्याः (सा) 'राजीववक्त्रा', पद्मवदनेत्यर्थः / पुनः किंविशिष्टा जिनानां राजी ? / 'सारा' प्रधाना / पुनः किंविशिष्टा जिनानां राजी ? / 'बोधिका'
SR No.004430
Book TitleShobhan Stuti Vruttimala Part 02
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy