________________ सृणिः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 296) / पुनः किंविशिष्टः ? / 'सूचितोमाचितः' सुतरां सुष्ठुवा उचिता-योग्या या उमा-कीर्तिः तया चितो-व्याप्तः / पुनः किंविशिष्टाः ? 'रुचिररुचिरदः' रचिरामनोहरा रुचिः-कान्तिर्येषां ते एवंविधा रदा-दन्ता यस्य स तथा / पुनः किंविशिष्ट: ? / 'अतनुरवः' अतनुः-अनल्पो रवः-शब्दो यस्य स तथा, मेघगम्भीरघोषत्वात् / पुनः किंविशिष्ट: ? / नन्दकःआनन्दजनकः समृद्धिकारक इति प्राञ्चः / नो निषेधे | पुनः किंविशिष्टः ? नोदकः-प्रेरकः / किं कुर्वन् पार्श्वनाथः ? / दधत्-धारयत् / काम् ? / मालां-पुष्पस्रजम् / इह-अस्मिललोके यां मालाम् अलीनांभ्रमराणां आली-पंक्तिः मुदा-हर्षेण अदधत्-पपौ / 'धेट पाने' धातुः / ‘अदधत्' इति क्रियापदम् / का की ? | ‘आली' / केषाम् ? / अलीनाम् / कां कर्मतापन्नाम् ? | मालाम् / कया ? / मुदा / कथम् ? / अरम्-अत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् / किंविशिष्टा आली ? / उदारा-स्फारा / पुनः किंविशिष्टा ? / लीना-आश्लिष्टा / कथम् ? / आरात्-शीघ्रम्, आगत्येतिशेषः / किंविशिष्टां मालाम् ? / 'मधुरमधुरसाम्' मधुरं-मिष्टं यन्मधु-मकरन्द: तस्य रसः-पुष्पनिर्यासो यस्यां सा ताम् / आल्या विशेषणमिति कश्चित् तच्चिन्त्यम् / यत्तदोर्नित्याभिसम्बन्धाद यदीया तनुः-शरीरं 'आपत्त्रा' आपद्-विपत्तिः तस्याः सकाशात् त्रायते इति आपत्त्रा, वर्तत इति शेषः / किंविशिष्टा तनुः ? / देवराजीवराजीपत्रा' देवैर्निर्मिता या 'राजीवराजी' राजीवानि-कमलानि तेषां राजी-पंक्तिः सैव पत्रं-वाहनं यस्याः सा तथा, तदुपरि चरणविन्यासादिति भावः / “यानं युग्यं पत्रं वाहं (ह्य)” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 423) / इति प्रथमवृत्तार्थः / / 89 / / .. ध० टीका-मालामिति / 'माला' स्रजम् / 'आलानबाहुः' आलानाविव बाहू यस्यासौ / 'दधत्' धारयत् / ‘अदधत्' पीतवती / ‘अरं' शीघम् / ‘याम्' / 'उदारां' प्रचुराम् / ‘मुदा' हर्षेण / 'आराद्' अन्तिके | ‘लीना' श्लिष्टा / ‘अलीनां' भृङ्गाणाम् / ‘इह' अत्र | ‘आली' श्रेणिः / ‘मधुरमधुरसां' मधुरो मधुरसो-मकरन्दद्रव्यो यत्र ताम् / 'सूचितोमाचितः' सूचिता-सुष्ठु उचिता या उमा-कीर्तिः तयाचितःसंयुक्तः / माशब्दो मामित्यस्यार्थे / 'पातात्' भ्रंशात् / ‘पातात्' रक्षतु / 'सः' / 'पार्थः' जिनः / 'रुचिररुचिरदः' रुचिररुचयः-कान्तद्युतयो रदा-दन्ता यस्य सः / देवराजीवराजीपत्रा' देवानां सम्बन्धिनी या राजीवराजी-सरोजपङ्क्तिः सैव पत्रं-वाहनं यस्याः सा / 'आपत्त्रा' आपदः सकाशात् त्रायते या सा / 'यदीया' यस्य सम्बन्धिनी / 'तनुः' मूर्तिः / अतनुरवः' अनल्पध्वनिः / नन्दकः' आनन्दयिता / 'नोदको नो' क्षेपको न भवति / यां अलीनामाली लीना अदधत् तां मालां दधत् स पातात् यदीया तनुरापत्त्रा इति सम्बन्धः / / 89 / /