________________ 372 शोभनस्तुति-वृत्तिमाला ++++++++++++++++++++++++++++++ की ? / ‘आली' / केषाम् ? / 'अलीनाम्' / 'अदधत्' पीतवती, धेटो दधादेशः अनद्यतन्याम् / कां कर्मतापन्नाम् ? / 'यां' मालाम् / कथम् ? | ‘अरं' अत्यर्थम् / कया? / 'मुदा' हर्षेण / कथंभूता अलीनां आली ? / 'उदारा' प्रधाना-महती / पुनः किंविशिष्टा अलीनामाली ? / मधुरः-सुस्वादुः मधुः-मकरन्दः तस्य रसो-हर्षो यस्याः सा ‘मधुरमधुरसा' “रसो हर्षे जले दुग्धे, शृङ्गारादौ रसाधरा” इति महीपः / पुनः किंविशिष्टः पार्थः ? | सु-शोभना उचिता-योग्या उमा-कीर्तिः तया चितः-व्याप्तः ‘सूचितोमाचितः' / “उमा धान्यविशेषे स्याद्, गौरी श्रीकीर्तिकान्तिषु” इति सुधाकलशवचनात् / पुनः किंविशिष्ट: पार्श्वः ? | रुचिरा-मनोहरा रुचिः-कान्तिर्येषां ते तादृशा रदा-दशना यस्य सः 'रुचिररुचिरदः' | पुनः किंविशिष्टः पार्श्वः ? / 'सः' सः-प्रसिद्धः / तच्छब्दो यच्छब्दमपेक्षते / सः कः ? यदीया तनुः-यस्य मूर्तिःयस्य शरीरं आपत्त्रा विपद्रक्षका अस्ति इत्यन्वयः / अस्ति' इत्यध्याहार्यम् / ‘अस्ति' इति क्रियापदम् / का की ? / 'तनुः' / 'अस्ति' विद्यते / किंविशिष्टा तनुः ? / 'यदीया' श्रीपार्श्वनाथसम्वन्धिनी / पुनः किंविशिष्टा तनुः ? / 'आपत्त्रा' / पुनः किंविशिष्टा तनुः ? / देवानां-सुराणां[वा] राजीवानि-कमलानि तेषां राजी-श्रेणिः सा एव पत्रं-वाहनं यस्याः सा ‘देवराजीवराजीपत्रा' / पुनः किंविशिष्टः पार्थः ? | अतनुः-महान् रवः-शब्दो यस्य सः ‘अतनुरवः', देशनासमये योजनगामीश्वरः (रवः?) इत्यर्थः / पुनः किंविशिष्टः पार्थः ? / 'नन्दकः' आनन्दकारी / पुनः किंविशिष्टः पार्थः ? / 'नोदकः' क्षेपकःक्लिष्टकारी / कथम् ? | 'नो' निषेधे / इति पदार्थः / ___ अथ समासः-आलानाविव बाहू यस्य स आलानबाहुः / मधुरश्चासौ मधुश्च मधुरमधुः, मधुरमधौ रसो यस्याः सा मधुरमधुरसा / सु-शोभना उचिता सूचिता, सूचिता चासौ उमा च सूचितोमा सूचितोमया चितः सूचितोमाचितः / रुचिरा रुचिः येषां ते रुचिररुचयः, रुचिररुचयो रदा यस्य स रुचिररुचिरदः / देवैर्निर्मितानि राजीवानि देवराजीवानि, देवराजीवानां राजी देवराजीवराजी, देवराजीवराजी एव पत्रं यस्याः सा देवराजीवराजीपत्रा | आपदः-विपदः त्रायते इति आपत्त्रा / यस्य इयं यदीया / न तनुः अतनुः, अतनुः रवो यस्य सः अतनुरवः / नन्दयतीति नन्दकः / इति प्रथमवृत्तार्थः / एकविंशतिवर्णमयीस्रग्धराच्छन्दसा स्तुतिरियम् / / 89 / / (4) दे० व्या०-मालेति / स पार्श्वः-पार्श्वनाथः मां अवताद्-रक्षतादित्यन्वयः / 'अव रक्षणे' धातुः / 'अवतात्' इति क्रियापदम् / कः कर्ता ? / (पार्थः) पार्श्वनाथः / कं कर्मतापन्नम् ? | माम् / कस्मात् ? / 'पातात्' पतनं पातः तस्मात् / पतनं पदात् परिभ्रंशः / किंविशिष्ट: पार्श्वनाथः ? / 'आलानबाहुः' आलानं-गजबन्धनस्तम्भः तद्वद् बाहू-भुजौ यस्य स तथा / “तोत्रं वेणुकमालानं, बन्धस्तम्भोऽङ्कुशः