________________ श्रीपार्धजिनस्तुतयः 371 'धेट पाने' धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियासाधनिका पूर्ववज्ज्ञेया / अत्र 'अंदधत्' इति क्रियापदम् / का की ? / आली / केषाम् ? / अलीनाम् / कथम् ? / आराद् / “आराद् दूरसमीपयोः” इति विश्वः / कुत्र ? / इह-जगति / पुनः कथम् ? / अरं-शीघम् / कया ? / मुदा-हर्षेण / कथंभूता अलीनामाली ? / 'उदारा' प्रचुरा-महती / “उदारो दातृमहतोः” इत्यमरः (श्लो० 2719) / पुनः कथंभूता ? / 'मधुरमधुरसा' मधुरं-मिष्टं यन्मधु-पुष्परसः तस्मिन् रसः-तीवाभिलाषो रागो वा यस्याः सा / “मधु मद्ये पुष्परसे” इत्यमरः (श्लो० 2540) / “शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः” इत्यमरः (श्लो० 2789) / कथंभूतः पार्थः ? / 'आलानबाहुः' आलानाविव गजबन्धनस्तम्भाविव बाहू-भुजौ यस्य स तथा / पुनः कथंभूतः ? / ‘सूचितोमाचितः' सुष्ठु उचिता या उमा-कीर्तिस्तया चितो-व्याप्तः / “उमा सीता हैमवती हरिद्राकीर्तिकान्तिषु” इति विश्वः / पुनः कथंभूतः ? / 'रुचिररुचिरदः' रुचिरामनोहरा रुचिः-ज्योतिर्येषां ते रुचिररुचयः, एतादृशा रदाः-दन्ता यस्य स तथा / “रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः” इति अभिधानचिन्तामणौ (का० 2, श्लो० 13) / पुनः कथंभूतः ? / 'अतनुरवः' अतनुः-अनल्पः रवो-ध्वनिर्यस्य स तथा, वाण्या योजनगामित्वात् / पुनः कथंभूतः ? / नन्दक-नन्दयिता / पुनः कथंभूतः ? | नोदकः-क्षेपकः / नो इति निषेधार्थे / स पार्श्व इति स कः ? / यदीया तनुः-यस्य पार्श्वप्रभोः तनुः-शरीरं आपत्रा-आपद्भ्यस्त्राणकारिणी, अस्तीति क्रियाध्याहारः / ततः ‘अस्ति' इति क्रियापदम् / का की ? / तनुः / कथंभूता ? / यदीया / पुनः कथंभूता ? | ‘आपत्त्रा' आपट्यस्त्राति-रक्षतीति आपत्ता / 'सुपि०' (पा० अ० 3, पा० 2, सू० 4) इति योगविभागात् कः / पुनः कथंभूता ? / 'देवराजीवराजीपत्रा' देवसम्बन्धिनी या राजीवानां-कमलानां राजी-श्रेणी सैव पत्रं-वाहनं यस्याः सा तथा / “पत्रं वाहनपक्षयोः” इत्यमरः (श्लो० 2693) / / 89 / / . सौ० वृ०-यो रिष्टेषु-विघ्नेषु नेमिः-चक्रं भवति तस्य पार्वं सद्भिः सदा सेव्यमानं भवति / यद्वा गर्भस्थे भगवति जनन्या स्वप्ने शय्यापा— कृष्णसर्पदर्शनात् तथा पार्श्वनागकुमारशासनाधिष्ठायकत्वात् / अनेन सम्बन्धेनायातस्य त्रयोविंशतितमजिनस्य श्रीपार्श्वनाथस्य स्तुतिव्याख्यानं लिख्यते-मालेति / . स (पार्श्वः) पार्श्वनाथजिनः मा पातादित्यन्वयः / 'पातात्' इति क्रियापदम् / कः कर्ता ? | ('पार्थः') पार्श्वजिनः / 'पातात्' रक्षतात् / कं कर्मतापन्नम् ? / 'मा' विशेषादेशे अस्मच्छब्दस्य द्वितीयैकवचनस्य मा इत्यस्य मा इति निपातः / कस्मात् ? / 'पातात्' नरकादिपा(ता)त् / पार्थः किं कुर्वन् ? / 'दधत्' विभ्रत् / कां कर्मतापन्नाम् ? / 'माला' स्रजम् / किंविशिष्टः पार्थः ? / आलानौगजवन्धनस्तम्भौ तद्वद् बाहू-भुजौ यस्य सः ‘आलानबाहुः' / पुनः अलीनां-भ्रमराणामाली-श्रेणिः यां मालामारात्-अन्तिके अरं-अत्यर्थं मुदा हर्षेण अदधदित्यन्वयः / 'अदधत्' इति क्रियापदम् / का