________________ 370 शोभनस्तुति-वृत्तिमाला मकरन्दे रसः-तीवाभिलाषो यस्याः सा तथा। पार्श्वः कथंभूतः ? 'आलानबाहुः' आलानाविवगजबन्धनस्तम्भाविव बाहू-भुजौ यस्य स तथा | पुनः कथं० ? 'सूचितोमाचितः' सूचिता-सुष्ठुचिता या उमा-कीर्तिः तया आचितः-संयुक्तः / पुनः कथं० ? 'रुचिररुचिरदः' रुचिररुचयः-कान्तद्युतयः रदाःदन्ताः यस्य स तथा / पुनः कथं० ? 'अतनुरवः' अतनुः-अनल्पः रवः-ध्वनिर्यस्य स तथा / पुनः कथं० ? 'नन्दकः' आनन्दयिता | पुनः कथं० ? 'नोदको नो' नोदकः-क्षेपकः, नो इति निषेधार्थे / स पार्श्वे इत्यत्र तच्छब्दसम्बद्धत्वाद् यच्छब्दघटनामाह-यदीया तनुः-यस्य पार्थप्रभोः तनुः-शरीरं आपत्त्रा-आपट्यस्त्राणकारिणी / ‘अस्ति' इति क्रियाऽध्याह्रियते / ततः ‘अस्ति' इति क्रियापदम् / का की ? 'तनुः' / किमीया ? 'यदीया आपत्त्रा' / पुनः कथं० ? 'देवराजीवराजीपत्रा' देवसम्बन्धिनी या राजीवराजीदेव(कमल)पंक्तिः सैव पत्रं-वाहनं यस्याः सा तथा / / अथ समासः-आलानाविव आलानौ / आलानौ बाहू यस्य स आलानबाहुः ‘बहुव्रीहिः' / मधुरं च तद् मधु च मधुरमधु ‘कर्मधारयः' / मधुरमधुनि रसो यस्याः सा मधुर० 'बहुव्रीहिः' / सुष्ठु उचिता सूचिता 'तत्पुरुषः' / सूचिता चासौ उमा च सूचितोमा ‘कर्मधारयः' / सूचितोमया चित्तः सूचितो० 'तत्पुरुषः' / रुचिरा रुचिर्येषां ते रुचिररुचयः ‘कर्मधारयः' / रुचिररुचयो रदा यस्य स रुचि० 'बहुव्रीहिः' / देवानां राजीवानि देव० 'तत्पुरुषः' / देवराजीवानां राजी देव० 'तत्पुरुषः' / पत्रमिव पत्रम् / देवराजीवराजी पत्रं यस्याः सा देव० ‘बहुव्रीहिः' / आपद्भ्यस्त्रायत इत्यापत्त्रा 'तत्पुरुषः' / न तनुः अतनुः 'तत्पुरुषः' / अतनुः रवो यस्य सः अतनुरवः ‘बहुव्रीहिः' / इति काव्यार्थः / / 89 / / (2) . सि० वृ०-मालेति / स पार्थः-पार्वाभिधानो जिनः मा-मां पाताद-अवतादित्यर्थः / 'पा रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू०६९१) / तुपस्तातङादेशः / अत्र ‘पातात्' इति क्रियापदम् / कः कर्ता ? | 'पार्श्वः' / स्पृशति-जानाति सर्वं ज्ञानेन इति पार्थः / ‘स्पृश संस्पर्शने' | पृषोदरादिः / गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि कृष्णसर्पमपश्यत् इति पार्थः इति ज्ञानेन सर्वान् भावान् पश्यतीति वा पार्श्वः-पार्थनामा यक्षोऽस्य वैयावृत्त्यकरो-सेवकोऽस्यास्तीति वा पार्थः / 'अर्श आदिभ्योऽच्' (पा० अ० 5, पा० २,सू० 127) पार्श्वनाथस्यैकदेशः पावो वा इति यथा / कं कर्मतापन्नम् ? / 'मा' माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशसिद्धौ मामित्यस्यार्थे वर्तते / पातात् कस्मात् ? / 'पातात्' पतनंपातस्तस्मात्, नरकादिषु पतनादित्यर्थः / पार्श्वः किं कुर्वन् ? / दधत्-धारयन् / कां कर्मतापन्नाम् ? / माला-स्रजम् / अत्राग्रे यामिति शब्दस्य सत्त्वात् तामिति तच्छब्दोऽप्यध्याह्रियते / यां मालामलीनांमधुकराणां आली-लेखा आराद्-अन्तिके-समीपे लीना-आश्लिष्टा सती अदधत्-पपौ, पीतवतीत्यर्थः /