________________ श्रीपार्धजिनस्तुतयः 369 23. श्रीपार्धजिनस्तुतयः अथ श्रीपार्श्वनाथाय प्रार्थना__- मालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा पातात् पातात् स 'पावो' रुचिररुचिरदो देवराजीवराजीपत्राऽऽपत्त्रा यदीया तनुरतनुरवो नन्दको नोदको नो // 1 // 89 // ___ - स्रग्धरा (7,7,7) ज० वि०-मालेति / स पार्श्वः-पार्श्वनामा जिनः, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशसिद्धो मामित्यस्यार्थे वर्तते, पातात्-नरकादिषु पतनात् पातात्-रक्षताद् इति क्रियाकारकयोजनम्। अत्र ‘पातात्' इति क्रियापदम् / कः कर्ता ? 'पार्श्वः' / पार्श्वः किं कुर्वन् ? 'दधत्' धारयन् / कां कर्मतापन्नाम् ? 'माला' स्रजम् / अत्राऽग्रे यामिति यच्छब्दस्य सत्त्वात् तामिति तच्छब्दोऽप्यध्याह्रियते / यां मालामलीनां-भ्रमराणामाली-श्रेणी आराद्-अन्तिके लीना-श्लिष्टा सती अदधत्-पीतवती / अत्रापि ‘अदधत्' इति क्रियापदम् / का की ? 'आली' / केषाम् ? 'अलीनाम्' / कां कर्मतापन्नाम् ? 'याम्' / कथम् ? ‘आरात्' / कुत्र ? ‘इह' अत्र जगति / पुनः कथं० ? 'अरं' शीघ्रम् / कया ? 'मुदा' हर्षेण / अलीनामाली कथंभूता ? 'उदारा' प्रचुरा / पुनः कथंभूता ? 'मधुरमधुरसा' मधुरे-सुस्वादे मधुनि