________________ 368 शोभनस्तुति-वृत्तिमाला ध० टीका-हस्तेति / 'हस्तालम्बितचूतलुम्बिलतिका' हस्तात् (हस्ते?) आलम्बिता चूतलुम्बिरेव लतिका यस्याः सा / 'यस्याः' / 'जनः' लोकः / ‘अभ्यागमत्' आगतवान् / 'विश्वासेवितताम्रपादपरतां' विश्वेन-जगता आसेवितयोस्ताम्रयोः पादयोः परतां-तदेकशरणताम् / 'वाचा' गिरा / 'रिपुत्रासकृत्' रिपूणां त्रासकारिणी / 'सा' / 'भूति' संपत्तिम् / वितनोतु' विस्तारयतु / 'नः' अस्माकम् / अर्जुनरुचिः' चामीकरच्छविः / 'सिंह' केसरिणि / 'अधिरूढा' आसीना / ‘उल्लसद्विश्वासे' उल्लसद्विश्वासो-विश्रम्भो यस्य तस्मिन् / 'वितताम्रपादपरता' विततो-विस्तीर्णो यः आम्रपादपः-चूतवृक्षः तत्र रता-आसक्तचित्ता / 'अम्बा' अम्बिकादेवी / 'चारिपुत्रा' चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा / 'असकृत्' अनारतम् / यस्या विश्वासेवितताम्रपादपरतां जनोऽभ्यागमत् सा अम्बा भूतिं वितनोतु इति सम्बन्धः // 4 / 22 88 // __ अवचूरिः यस्या अम्बाया जनो-लोको विश्वेन-जगता सेवितयोस्ताम्रयो-रक्तयोः पादयोः-चरणयोः परतातदेकशरणतामभ्यागमत्-जगाम साऽम्बा नः-अस्माकं भूति-संपदं वितनोतु / किंभूता ? / हस्ते आलम्बिता चूतलुम्बिरेव लतिका यया सा | वाचा-वाण्या रिपूणां त्रासं करोतीति / अर्जुन-काञ्चनं तद्वद् रुचिः-कान्तिर्यस्याः सा / सिंहे-कण्ठीरवेऽधिरूढा-आसीना / उल्लसन्-प्रसरन् विश्वासो यस्माद् यस्य वा / विततो-विपुलो य आम्रपादपः-चूतवृक्षस्तत्र रता / चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा / असकृत्निरन्तरम् // 4 / 22 / 88 //