________________ श्रीनेमिजिनस्तुतयः विश्वासेवितताम्रपादौ, परस्य भावः परता, विश्वासेवितताम्रपादयोः परता विश्वासेवितताम्रपादपरता, तां विश्वासेवितताम्रपादपरताम् / चारिणौ पुत्रौ यस्याः सा चारिपुत्रा / न सकृत् असकृत् / अर्जुनवद् रुचिर्यस्या असौ अर्जुनरुचिः / हिनस्तीति सिंहः, वर्णविपर्यये, तस्मिन् सिंहे / उल्लसंश्चासौ विश्वासश्च उल्लसद्विश्वासः, तस्मिन् उल्लसद्विश्वासे, यद्वा उल्लसन् विश्वासो यस्य स उल्लसद्विश्वासः / आम्रश्चासौ पादपश्च आम्रपादपः, विततश्चासौ आम्रपादपश्च वितताम्रपादपः, वितताम्रपादपे रता वितताम्रपादपरता / रिपूणां त्रासो रिपुत्रासः, रिपुत्रासं करोतीति रिपुत्रासकृत् / / इति चतुर्थवृत्तार्थः / श्रीमन्नेमिजिनेन्द्रस्य, स्तुतेरों लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना / // इति श्रीद्वाविंशति(तम)श्रीनेमिनाथस्य स्तुतेर्व्याख्यानम् // 4 / 22 / 88 // दे० व्या०-हस्तेति / सा अम्बिका देवी नः-अस्माकं भूति-ऋद्धिं तनोतु-विस्तारयतु इति सम्बन्धः / 'तनु विस्तारे' धातुः / तनोतु' इति क्रियापदम् / का की ? / अम्बिका / कां कर्मतापन्नाम् / भूतिम् ? / “ऋद्धिः विभूतिः सम्पत्तिः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 21) / केषाम् ? / नः / किंविशिष्टा अम्बिका ? / 'अर्जुनरुचिः' अर्जुनः(नं?)-सुवर्णं तद्वद् रुचिः-कान्तिः यस्याः सा तथा / पुनः किंविशिष्टा ? / अधिरूढा-आरूढा / कस्मिन् ? / सिंहे-हर्यक्षे / किंविशिष्टे सिंहे ? / 'उल्लसद्विश्वासे' उल्लसन्-उल्लासं प्राप्नुवन् विश्वासो यस्मिन् स तस्मिन् / पुनः किंविशिष्टा ? / 'वितताम्रपादपरता' विततोविस्तीर्णो य आम्रपादपः-सहकारवृक्षः तस्मिन् रता-आसक्ता, दत्तचित्ता इति यावत् / पुनः किंविशिष्टा ? / 'चारिपुत्रा' चारिणौ-गमनशीलौ पुत्रौ-अङ्गजौ यस्याः सा तथा। पूर्वभवापेक्षयैतद् विशेषणम् / पुनः किंविशिष्टा ? / 'रिपुत्रासकृत्' रिपूणां त्रासं करोतीति तथा / “बासस्त्वाकस्मिकं भयं” इत्यभिधान-चिन्तामणिः (का० 2, श्लो० 235) / 'वाचा' शापेन वचनव्यापारेण वा / पुनः किंविशिष्टा ? / 'हस्तालम्बितचूतलुम्विलतिका' हस्ते-करे आलम्बिता-गृहीता चूतस्य-आम्रस्य (लुम्विरूपा) लतिका-शाखा यया सा तथा / “शिखाशाखालताः समाः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 185) / यत्तदोर्नित्याभिसम्बन्धाद् यस्याः अम्बिकाया जनः-लोकः असकृत्-निरन्तरं विश्वासेवितताम्रपादपरतां अभ्यागमत्-आययौ / ‘अभ्यागमत्' इति क्रियापदम् / कः कर्ता ? / जनः / कां कर्मतापन्नाम् ? / 'विश्वासेवितताम्रपादपरता' विश्वेन-जगता आ-समन्तात् सेवितौ-सपर्याविषयीकृतौ ताम्रपादौ-ताम्रवर्णक्रमौ तयोः परतां तदाधीनतामित्यर्थः / / इति चतुर्थवृत्तार्थः / शार्दूलविक्रीडितं छन्दः / / तल्लक्षणं तु प्रागेव प्रदर्शितम् // 4 / 22 / 88 //