________________ 366 शोभनस्तुति-वृत्तिमाला सिः / ‘दादेः पे' (सा० सू०७२५) इति सिलोपः / 'इणः सिलोपे गादेशो वक्तव्यः' इति गादेशः / दिबादावट्' (सा० सू० 707) / ‘इ यं स्वरे' (सा० सू० 33) / ‘स्वरहीनं०' (सा० सू० 36) / तथा च अभ्यगात्' इति सिद्धम् / अत्र ‘अभ्यगात्' इति क्रियापदम् / कः कर्ता ? / 'जनः' / कां कर्मतापन्नाम् ? / 'विश्वासेवितताम्रपादपरताम्' विश्वेन-जगता सेवितौ अर्चितौ वा ताम्रौ-रक्तवर्णी पादौ-चरणौ तयोः परतांतदेकशरणताम् / कथम् ? / 'असकृत्'-निरन्तरम् / शार्दूलविक्रीडितं छन्दः / लक्षणं तु पूर्वमेवोक्तम् / // इति महोपाध्यायश्रीभानु० श्रीनेमिनाथजिनस्य स्तुतिवृत्तिरियम् / / 4 / 22 / 88 // (3) सौ० वृ०-हस्तेति / सा अम्वानाम्नी देवी नः-अस्माकं भूति-लक्ष्मी वितनोतु इत्यन्वयः / 'वितनोतु' इति क्रियापदम् / का कर्जी ? / 'अम्बा' / 'वितनोतु' विस्तारयतु / कां कर्मतापन्नाम् ? / 'भूतिम्' / केषाम् ? / 'नः' अस्माकम् / किंविशिष्टा अम्बा ? | 'अर्जुनरुचिः' सुवर्णच्छविः / पुनः किंविशिष्टा अम्बा ? / विततः-विस्तीर्णो यं आम्रपादपः-सहकारतरुः तत्र रता-आसक्ता 'वितताम्रपादपरता', सहकारतरुनिवासिनीत्यर्थः / पुनः किंविशिष्टा अम्बा ? / रिपूणां-वैरिणां त्रासं-अकस्माद्भयं करोतीति 'रिपुत्रासकृत्' रिपुभयकारिणीत्यर्थः / कया ? / 'वाचा' हक्कारेण / पुनः किंविशिष्टा अम्बा ?' हस्तेकरे आलम्बिता-लोलायमाना चूतस्य-सहकारस्य लुम्बिः-प्रलम्बा(?) लतिका यया सा ‘हस्तालम्बितचूतलुम्बिलतिका' / पुनः किंविशिष्टा अम्बा ? / 'अधिरूढा' अध्यारूढा / कस्मिन् ? / 'सिंहे'. कण्ठीरवे / किंविशिष्टे सिंहे ? / उल्लसन्-जाग्रद विश्वासः-प्रतीतिलक्षणो यस्य स उल्लसद्विश्वासः तस्मिन् 'उल्लसद्विश्वासे' / पुनः किंविशिष्टा अम्बा ? / 'सा' सा-प्रसिद्धा / तच्छन्दो यच्छन्दमपेक्षते / सा का ? | जनो-लोको यस्याः अम्बाया विश्वं-जगत् तेन आसेवितो-आराधितौ ताम्रौ-रक्तौ पादौ-चरणौ तयोः परतातत्परतां 'विश्वासेवितताम्रपादपरतां' अभ्यागमत् इत्यन्वयः / ‘अभ्यागमत्' इति क्रियापदम् / कः कर्ता ? / 'जनः' / 'अभ्यागमत्' प्रापत् / कां कर्मतापन्नाम् ? / 'विश्वासेवितताम्रपादपरतां' जगदाराधितताम्रचरणसंगतिम् / कथम् ? / 'असकृत्' नित्यशः / कस्याः ? / 'यस्याः' देव्याः / पुनः किंविशिष्टा अम्बा ? | चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा 'चारिपुत्रा', बवयोरैक्यं यमकत्वात् / एतादृशी अम्वा नः-अस्माकं भूतिं वितनोतु / इति पदार्थः / / अथ समासः-चूतस्य लुम्बिः चूतलुम्बिः चूतलुम्विः एव लतिका चूतलुम्बिलतिका, हस्ते आलम्बिता हस्तालम्विता, हस्तालम्विता चूतलुम्बिलतिका यया सा हस्तालम्वितचूतलुम्बिलतिका / विश्वेन आसेवितौ विश्वासेवितो, ताम्रौ च तौ पादौ च ताम्रपादौ, विश्वासेवितौ च तौ ताम्रपादौ च 1. 'इणिकोः सिलोपे गा वक्तव्यः' इति सारस्वते (सू० 815) /