________________ श्रीनेमिजिनस्तुतयः अथ समासः-हस्ते आलम्बिता हस्तालम्बिता 'तत्पुरुषः' / चूतस्य लुम्बिः चूत० 'तत्पुरुषः' / लतिकेव लतिका | चूतलुम्बिश्चासौ लतिका च चूत० 'कर्मधारयः' / हस्तालम्बिता चूतलुम्बिलतिका यस्याः सा हस्ता० ‘बहुव्रीहिः' / विश्वेनासेवितौ विश्वासेवितौ 'तत्पुरुषः' / ताम्रौ च तौ पादौ च ताम्रपादौ 'कर्मधारयः' / विश्वासेवितौ च तौ ताम्रपादौ च विश्वासे० 'कर्मधारयः' / विश्वासेवितताम्रपादयोः परता विश्वासेवित० 'तत्पुरुषः' / तां विश्वासेवित० / त्रासं करोतीति त्रासकृत् 'तत्पुरुषः' / रिपूणां त्रासकृत् रिपुत्रा० 'तत्पुरुषः' / अर्जुनस्येव रुचिर्यस्याः सा अर्जुन० ‘बहुव्रीहिः' / उल्लसन् विश्वासो यस्य स उल्लसद्विश्वासः ‘बहुव्रीहिः' / तस्मिन् उल्लस० / आम्रश्चासौ पादपश्च आम्रपादपः ‘कर्मधारयः' / विततश्चासौ आम्रपादपश्च वितता० 'कर्मधारयः' / वितताम्रपादपे रता वितता० 'तत्पुरुषः' / चारिणौ पुत्रौ यस्याः सा चारिपुत्रा ‘बहुव्रीहिः' / इति काव्यार्थः / / . // इति श्रीशोभनस्तुतिवृत्तौ श्रीनेमिजिनेन्द्रस्य स्तुतेर्व्याख्या // 4 / 22 / 88 // सि० वृ०-हस्तेति / सा अम्बा-अम्बिकादेवी, अत्रापि बवयोरैक्यं यमकवशादेव, नः-अस्माकं भूतिसम्पदं वितनोतु-विस्तारयत्वित्यर्थः / विपूर्वक 'तनु विस्तारे' धातोः आशी:प्रेरणयोः' (सा० सू० 703) लोटि कर्तरि परस्मैपदे प्रथमपुरुषकवचनम् / अत्र ‘वितनोतु' इति क्रियापदम् / का कर्जी ? / अम्बा / कां कर्मतापन्नाम् ? / भूतिम् / “भूतिभस्मानि सम्पदि” इत्यमरः (श्लो० 2473) / केषाम् ? / 'नः' / कथंभूता अम्बा ? / 'हस्तालम्बितचूतलुम्बिलतिका' हस्ताग्रे आलम्बिता-अवलम्विता-लोलायमाना स्थिता चूतस्य-आम्रस्य लुम्बिरूपा लतिका-शाखा यया सा तथा / “शिखाशाखालताः समाः” इति हैमः (का० 4, श्लो० 185) / पुनः कथंभूता ? / 'रिपुत्रासकृत्' रिपूणां-वैरिणां त्रासं-भयं आकस्मिकभयं वा करोतीति रिपुत्रासकृत् / कया ? / वाचा-गिरा, हक्कारवेणेत्यर्थः / पुनः कथंभूता ? / 'अर्जुनरुचिः' अर्जुनस्येव-सुवर्णस्येव रुचिः-दीप्तिः यस्याः सा तथा / “तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि” इति हैमः (का० 4, श्लो० 110) / पुनः कथंभूता ? / अधिरूढा-आसीना / कस्मिन् ? | सिंहे केसरिणि / कथंभूते सिंहे ? | ‘उल्लसद्विधासे' उल्लसन्-उल्लासं प्राप्नुवन् विश्वासो-विसम्भो यस्य स तथा तस्मिन् / पुनः कथंभूता अम्बा? / 'वितताम्रपादपरता' विततो-विस्तीर्णो यः आम्रपादपः-चूतवृक्षः तत्र रता-आसक्तचित्ता / पुनः कथंभूता ? / 'चारिपुत्रा' चारिणौ-विहरणशीलौ पुत्रौ-सुतौ यस्याः सा तथा / प्राग्भवापेक्षयैतद् विशेषणं, षष्ठांगः-ज्ञाताधर्मकथांगस्तस्मादस्याः पूर्वजन्मवक्तव्यता वोद्धव्या / यत्तदोर्नित्यसम्बन्धात् यस्याः अम्बायाः जनः-लोकः विश्वासेवितताम्रपादपरतां अभ्यगात्-जगामेत्यन्वयः / 'इण् गतौ' धातोः कर्तरि भूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'भूते सिः' (सा० सू० 724) इति 1. अयमुल्लेखश्चिन्तनीयः, मुद्रितषष्ठाङ्गे तदनुपलब्धेः /